पृष्ठम्:न्यायलीलावती.djvu/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
न्यायलीलावती


न्न, आसिद्धेः । तस्माद्विवादाध्यासितं न निजरूपमात्रसम्बद्धातीन्द्रियसापेक्षं प्रमाणेन तथानुपलभ्यमानत्वात् । यत्प्रमाणेन य-


न्यायलीलावतीकण्ठाभरणम्

स्थाभ्यामित्यर्थः शक्तेरसिध्देहेंतोरसिध्दिरिनि परिहरति - नेति । साधकबाधक प्रमाणाभावात् शक्तौ संशयप्रसङ्गबाधकमुपन्यस्या पनयति तस्मादिति । वहिर्न दाहानुकूलाद्विष्टातीन्द्रियधर्म्मसमवायीत्यर्थः । प्रमाणेनेति । सम्भावितयोरर्थापत्यनुमानयोरपास्तत्वादिति

न्यायलीलावती प्रकाशः

दिति बाधकमाह - तस्मादिति । ननु हेतुः स्वरूपासिद्ध न हात्र न प्रमाणमिति परेणाभ्युपयते त्वया वा साधयितुं शक्यते अन्यथैवं सर्ब्वे सर्व्वत्र बाध्येत । मैवम् । प्रतिबन्धकसत्वे सति यदभावात् कार्याभावः स न सप्तपदार्थवहिर्भूतः कार्यजनकत्वात् सम्प्रतिपन्नवदिति विवक्षितत्वात् । अत्र वदन्ति । मण्यादिप्रयोगजन्यादृष्टं प्रतिबन्धकमिति न युक्तं किं तु मण्यादिरेव तथा प्रथमोपस्थितत्वादुपजीव्यत्वा ल्लाघवाच्च । न च प्रतिबद्धान्यस्य कारणस्य तत्त्वमिति कारणतावच्छेदकत्वादकारणमेव मण्याद्यभावः सामान्येनान्वयव्यतिरेकवत्तया गृहीते सति कार्यानुत्पत्तौ सहकारिभेदस्य कल्पनात् तद्विशेषस्याक

न्यायलीलावतीप्रकाशविवृतिः

पि त्वया शक्तेः शक्तयन्त्तरं विनैव यथा जनकत्वं स्वीक्रियते अन्यथाऽनवस्थानात् तथा कारणान्तरेऽपि स्यादित्यप्रयोजकत्वे पूर्वमुक्ते तात्पर्य्यम् । ननु प्रसाध्याङ्गक एव हेतुरत आह - त्वया वेति । सिद्ध सिद्ध्या व्याघातादिति भावः | अन्यथेति । स्वयं प्रमाणानभ्युपगममाश्रेणैव वस्तुविरहसाधन इत्यर्थः । स नेति। समस्तपदार्थान्तर्गत इत्यर्थो यातेक्ष्रुते प्रतियोग्यप्रसिद्धेः । कार्येति सम्पातायातम् । जनकत्वमप्यनुकूलत्वमात्रं कारणतदवच्छेदकसाधारणम्, अन्यथाऽन्यतरासिद्धेरिति स्मर्त्तव्यम् । मण्यादीति । इदमुपलक्षणम्, तज्जनकादष्टमष्टविशेषार्जित करतलानलसंयोगश्चेत्यपि द्वयं द्रष्टव्यम् । हेतोरपि दृष्टेनैवोपपत्तरित्यपि द्रष्टव्यम् । न चेति । यद्यपि तथाकारपत्वेऽपि नादृष्ठप्रतिबन्धकत्वसिद्धिरिति शङ्कवेयमनुपपन्ना, तथापि तटस्थस्य मुरारिमिश्रस्य शङ्गेयम् । सामान्येनेति । वह्नित्वादिनेत्यर्थः ।