पृष्ठम्:न्यायलीलावती.djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशाद्धोसिता


न्यायलीलावतीप्रकाशः

ल्पनादुपजीव्याविरोधात् सहकारिप्रत्याख्यानापत्तेश्च व्यक्त्यैक्ये चास-

न्यायलीलावतीप्रकाशविवृतिः

'सति' विद्यमाने । उपजीव्येति । विशिष्टस्यापि कारणताग्रहे प्रथम कारणताग्रहो बीजम् । अन्यथा यस्मिन् सत्यपि कार्य्याभावे यत्सत्त्वे कार्य्ये तत्राद्यस्याहेतुत्वमुत्तरस्यैव हेतुत्वं कल्प्येत । तथा च प्राथमिकसामान्यावच्छिन्नकारणताग्रहविरोध इत्यर्थः । नन्विदसमङ्गतं धर्मिंमकारणताग्रहमात्रस्योपजीव्यत्वात् तदवच्छेदकत्वग्रहस्य दैवागतत्वात् । उपजीव्यत्वेऽपि तस्यापरित्यागातू, अधिकामितिन्यायादित्यरुचेराह - सहकारीति । एककारणपरिशेषापत्तेरित्यर्थः । विनिगमकाभावेनोभयहेतुत्वस्यान्यत्रेवात्रापि समानत्वादिति भावः । नन्वेवं दण्डत्वदृढत्वयोरुभयोरपि जनकत्वमस्तु दृढत्वस्य जनकत्वे तत्रावच्छेदकान्तरकल्पनागौरवमिति यदि तदा प्रकृतेऽपि समानम् । अत्र मिश्राः । स्वरूपयोग्यतायावदाश्रयभाविनी सा चावच्छेदकाव च्छिन्नयावदाश्रयभाविनी सा चावच्छेदकावच्छिन्नकारणस्वरूपा ऽवच्छेदक स्वरूपा वोभयथाव्यवच्छेदके सत्येव वर्त्तत इति । यावदाश्रयभाव्येवावच्छेदकमपीत्यच्छेदकान्तराकल्पनालाघवात् तत्र भ्रमिजनकत्वरूपं यावदाश्रयभाविदृढत्वमवच्छेदकम्, प्रतिबन्धकाभावसाहित्यं तु न तथा, कादाचित्कत्वात् । न चैवमपि दण्डस्यावच्छेदकत्वे वैपरीत्यमवास्त्विति वाच्यम् ,साक्षात्सहकारिसमवधानासमवधानाभ्यां विनिगमनासम्भवादिति बदन्ति । न चैवमालोक [१] स्याप्युक्त विनिगमनया हेतुत्वं तु न स्यादिति वाच्यम्, तदुत्कर्षेण प्रत्यक्षोत्कर्षात्तस्य हेतुत्वाद्विषयत्वेन कारणतावश्यम्भावाञ्चेति । व्यक्त्यैक्ये चेति । एकव्यक्तिक आकाशादौ प्रतिबद्धेतरत्वाभावादित्यर्थः । अन्योन्याभावस्य व्याव्यवृत्तित्वा [२] दिति भावः । यद्यपि भेरीसंयोगादेरेव तथा जनकत्वस्वीकारे देशभेदेन शब्दोत्पत्त्यनुत्पत्ती तत्र समर्थयितुं शक्येत, तथाव्याकाशकारणतायां स्वरूपमात्रनिबन्धनायामन्यत्रापि दृष्टान्तेन तथा कारणता कल्प्यत इत्यत्र तात्पर्यम् । अत्यन्ताभावावच्छेदकत्वपक्षे यद्यपि नेदं दूषणं तस्याप्यव्याप्यवृत्तित्वात् तथापि तत्र पूर्वकमेव


  1. 'के रूपस्याप्यु' ।
  2. 'त्वाभ्युपगमादि' ।