पृष्ठम्:न्यायलीलावती.djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
न्यायलीलावती


था नोपलभ्यते न तत्तथाभूतं, यथा नीलं न पीतं रूपम् ।


न्यायलीलावतीकण्ठाभरणम्

भावः । ननु अर्थापत्तावुक्तान्यथोपपत्तिर्न सम्भवति न हि मणिजन्यमदृष्टं दाहविराधि अनुपस्थितत्वात् किन्तु मणिरेवान्वयव्यतिरे कशालित्वात् । अत एव करतलानलसंयोगविशेषोऽव्यव्याप्तः । न च मण्यादेरेव दाह प्रतिबन्धकत्वे तदद्भावस्यैव दाहकत्वमिति शक्तिसिद्धि-

न्यायलीलावतीप्रकाशः

म्भवात् । अथ मण्यादिसंसर्गाभावो न हेतुः, न हि करादौ मण्याद्यत्यन्ताभावो नास्ति संयोगात्यन्ताभावो वा मणेः स्वावयववृत्तित्वात्, संयोगस्य चाव्याप्यवृत्तित्वादिति चेन्न, इह भूतले घटो नास्तीतिवत् संसर्गावच्छिन्न प्रतियोगिकस्याभावविशेषस्य सति प्रतिबन्धके तत्रा भावात् स च समयविशेषावच्छेदेन संसर्गितयाऽत्यन्ताभाव एव अ तिरिक्त एव [१] वेत्यन्यदेतत् । न चैवं प्रतिबन्धके सति तज्जातीयव्यक्त्यन्तराभावमादाय कार्योत्पत्तिप्रसङ्गः सामान्याभावस्य कारणत्वात् तस्य च यत्किञ्चित्प्रतियोगिसत्त्वे विरहात् तावतामभावानां कूटस्यैव वा कारणत्वात् । अत एव न प्रतिबन्धकाभावत्वेन कारणत्वमन्योन्या श्रयात् कारणीभूताभावप्रतियोगिन एव प्रतिबन्धकत्वादित्यपास्तम्, मण्याद्यभावकूटत्वेन कारणत्वात् । न च विशिष्टाभावनिरुक्ति विशे

न्यायलीलावती प्रकाशविवृतिः

दूषणमिति मन्तव्यम् । अथेति । अन्योन्याभावस्तु हेतुत्वेन शङ्कितोऽपि न, मणिसत्वे तदन्योन्याभावमादाय हेतुतापत्तेरिति हृदयम् । अत्यन्ताभावस्यापि समयविशेषेणाश्रय सम्बन्धे प्रागभावादिविलोप इत्यरुचेराह~-अतिरिक्को वेति । जन्याभावत्वेनैव च ध्वंसविभजनान विभागव्याघात इति भावः । सामान्येति । प्रतिबन्धकत्वावच्छिन्नप्रतियोगिकसामान्याभावस्येत्यर्थः । ननु प्रतिबन्धकत्वं कारणीभूताभावप्रतियोगित्वमित्यन्योन्याश्रयः न च कार्यानुत्पादप्रयोजकत्वं प्रतिन्धकत्वमिति वाच्यम्, अनुत्पादस्य प्रागभावात्मकतया [२] साध्यत्वादिस्यरुचेराह - कूटस्यैवेति । मण्याद्यभावकूटस्य मण्यभावत्वादिना जनकत्वादिव्यर्थः । विशेषणेति । न चैवं क्षणरूपोपाध्यवच्छिन्नघट-


  1. 'अतिरिक्तो वे’ति विवृतिधृतः पाठः ।
  2. 'भावरूपतंया' ।