पृष्ठम्:न्यायलीलावती.djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

रिति वाच्यम्, एवं सत्युत्तेजक कालेऽपि दाहो न स्यात् प्रतिबन्धकाभावस्य सहकारिणोऽभावात् । न च प्रतिबद्धेतरवह्नित्वेनैव कारणत्वे किं शक्त्येति वाच्यम्, एवं सति सहकारिणामुच्छेदप्रसङ्गात्, दण्डादिसमवहितचक्रत्वेनैव कारणत्वसम्भवात् । न च न केवलः प्रतिबन्ध काभावः कारणं किन्तूत्तेजकाभावविशिष्टो, न चोत्तेजक काळे तदभाववैशिष्टयमिति वाच्यम्, एवं हि विशिष्टाभावः कारणं स च विशेषणविशेष्यतदुभयाभावेषु नानुगत इत्यननुगमापत्तिरेकशक्तिमत्तयाऽनुगमे सिद्धं नः समीहितम् । विशेषणाद्यभावेषु विशिष्ट विरोधित्वमनुगमकमिति चेन्न, विशिष्टस्यानभ्युपगमात् । अभ्युपगमे वा विशिष्टविशेषणाद्यभावयोर्न परस्परविरहात्मत्वं विरोधः, तथा सति विशेषणादेरेव विशिष्टत्वं स्यात् । नापि परस्परविरहव्याप्यत्वं नीलपीतादिवत् परस्परविरहस्य परस्पराक्षेपकत्वं वा नित्यत्वानित्यत्ववद्, विशेषणाद्यभावस्यैव विशिष्टाभावरूपत्वेनाभेदे व्याव्यव्यापकभावाभावात् । मण्यादिकाले च न मणिप्रागभावप्राध्वंसौ तदत्यन्ताभावश्च करादौ सार्व्वत्रिक इति मणिसमवधानदशायामपि दाहापत्तिस्तदन्योऽन्याभावेऽप्येवम् । किं च मणेः सत्त्वेऽपि मन्त्राभावाद् दाहापत्तिः, न हि एकजातीययावतकारणसमवधानं तन्त्रम् । तथा च सकलदण्डोपस्थितौ परं घटोत्पत्तिः स्यात् । मन्त्रादेश्चाशुविनाशिनोऽभावादनुपदमेव दाहः स्यात्, न तु प्रहरादिपर्थ्यन्तमदाहः । प्रतिबन्धकाभावस्य कारणत्वेऽन्योऽन्याश्रयः कारणीभूताभावप्रतियोगित्वस्यैव प्रतिबन्धकत्वात् । मण्याद्यभावकूटत्वेनापि कारणता मण्यादीनां प्रतिबन्धकत्वमगृहीत्वा ग्रहीतुं न शक्यते, अप्रतिबन्धकरासभाद्यभावस्थापितत्कूटप्रवेशसम्भवात् । रासभादीनामप्रतिवन्धकत्वान्नैवमिति चेत् तर्हि प्रतिबन्धकत्वं मण्यादीनां गृहीत्वैव तदभावकूटस्य कारणत्वग्रह इति कथं नान्योऽन्याश्रयः । अत एवोत्तेजकाभावादिविशेषणावच्छिन्नप्रतिबन्धकाभावत्वेनैव न कारणता अन्योऽन्याश्रयात् । अत एव उत्तेजकाभावप्रतिबन्धकयोर्विशेषणविशेष्ययोः सम्बन्धाभावोऽनुगतो न दाहकारणं तयोः सम्बन्धान्तराभावात् स्वरूपसम्बन्धस्य च स्वरूपद्वयात्मकस्याभावयोरननुगमात् । मैवम् । प्रतिबन्धकत्वं हि कार्य्यानुत्पत्तिव्याप्यसमवधानत्वम्। उत्तेजकाभावविशिष्टप्रतिबन्ध