पृष्ठम्:न्यायलीलावती.djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

काभावस्य कारणत्वमुत्तेजकाभावावच्छिन्न प्रतियोगिक प्रतिबन्धकाभावस्येति यावत् । प्रतियोगितावच्छेदकभेदेनाभावभेदाभ्युपगमात् । एवं च नान्योऽन्याश्रयाननुगमौ । स चाभावोऽत्यन्ताभाव एव संसर्गावच्छिन्नप्रतियोगिकोऽन्यो वा उत्पादविनाशशीलः सामान्य्रावच्छिन्नप्रतियोगिकश्चासौ कारणमिति नैकसत्वे दाहापत्तिः । एवं चार्थापत्तावन्यथोपपत्तावनुमानमपि दृष्यं तत्रापि साध्ये भावभूतादिपदप्रक्षेपात् प्रतिबन्धकाभावेनान्यथासिद्धिर्निरसनीया । तथा च व्यर्थविशेषणत्वमवैयर्थ्यो वा शक्तिभिन्नतद्भिन्नानन्तपदार्थशक्तिसिद्धिप्रसङ्ग इति ।

ननु विषये ज्ञाते न ज्ञातताधीयते यन्निबन्धनो ज्ञातो घट इति ।

न्यायलीलावतीप्रकाशः

षणावच्छिन्न प्रतियोगिकस्य विशेष्याभावस्य तदुभयसम्बन्धाभावस्य वा विशिष्टाभावत्वात् । प्रतीतिवैलक्षण्यात् तस्य केवलविशेषणवि-

न्यायलीलावती प्रकाशविवृति:

नाशस्वीकारे क्षणभङ्गापत्तिस्तादृशक्षणभङ्गस्येष्टत्वात् तद्विशेष्यतावच्छेदकावच्छिन्ननाशस्य प्रतिक्षणभाविनोऽस्वीकारात् ।

नव्यास्तु [१] लाघवात्प्रतियोगिमात्रेणैव सममभावस्य विरोध इति तत्र क्षणस्यैव नाशो न घटस्य प्रतिबन्धका भावस्थलेऽप्युत्तेजकाभावविशिष्टस्य मण्यन्तरस्यैवाभाव इति । तदयुक्तम् । तथा सति तत्र विद्यमानस्य मणेरभावात् [२] सत्यप्युत्तेजके दाहानापत्तेः । न च स मणि [३] रप्रतिबन्धक एवमुत्तेजकोपनयपूर्वमपि तत्र दाहापत्तेः । न च विशेषणावच्छिन्नविशेष्यविरहवत् विशेष्यावच्छिन्नविशेषणविरहोऽपि हेतुरित्यविनिगम उभयहेतुत्वस्वीकारात् शक्त्यपेक्षया लघुत्वादिति। पक्षान्तरमाह - तदुभयेति । नन्वेवमपि विशिष्टाभाव एवेति क्वचिद्विशेष्यसम्बन्धाभावात्मा कचिद्विशेषणतदुभयप्रतियोगिकत्वाभावात्मेत्यननुगमः । तत्रापि सम्बन्धाभावस्वीकारेऽनवस्थेति । अत्र मिश्राः । विशेष्यविशेषणसम्बन्धाभाव एव विशिष्टाभावः । न चायमपि विशिष्टाभावात्मेति तहोषतादवस्थ्यं सम्बन्धस्य विशेष्याभावाप्रसिया विशेषणप्रतियोगित्वरूपविशेषणमात्राभावस्थाननुगतत्वात् । न च वि-


  1. 'नवीनास्तु' ।
  2. 'णेरभावाभावात्' ।
  3. 'णि. प्रतिबन्धक एव न उत्तेजको० ।