पृष्ठम्:न्यायलीलावती.djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

शेष्याभावे तदुभयाभावे च साधारणत्वात् । एतेन कारणानि स्वजन्यजनकाद्विष्ठातीन्द्रियभावभूतधर्मवन्ति कारणत्वादात्मवत् । तत्रादृष्टं तथा सिद्धमिति सामान्यतः । भट्टमतेऽनुपलब्धिगम्यत्वात्तदभावोऽप्य तीन्द्रिय इति तद्वयावृत्त्यर्थ भावभूतेति विशेषणम् । विशिष्य तु वह्निर्दा हानुकूलातीन्द्रियाद्विष्टधर्म्म समवायवान् दाहजनकत्वादात्मवत् । अनुकूलत्वं च कार्याभावव्याप्याभावप्रतियोगित्वं कारणतदवच्छेदकसा-

न्यायलीलावतीप्रकाशविवृतिः

शेष्यसम्बन्धाभाव एव विशेषणे हेतुरस्तु विशेष्याणां मणीनामानन्त्येन तत्सम्बन्धाभावस्थाननुगततया उत्तेजकाभाव सम्बन्धाभावस्य लघुत्वात् अधिकरणमेदेऽपि उत्तेजकाभावस्यैकत्वात् । अस्तु वा विशेषणविशेष्यप्रतियोगिकत्वाभावसम्बन्धो दाहकारणं तस्यैकत्वादिति । कोचत्तु सम्बन्धत्वावच्छिन्नाभावो विशिष्टाभावः । सम्बन्धत्वं च विशिष्टधीजननयोग्यत्वम् । तच्च क्वचित्संयोगादिनिबन्धनं क्वचित् स्वरूपसम्बन्धनिबन्धनम् । एवं च मणेः प्रतिबन्धकत्वं समानाधिकरणाभावस्य च दाहकारणत्वं निर्वहतीति वदन्ति । कारणानीति | वस्तुमात्रपक्षतायां पण्डापूर्व्वादौ बाध इति कारणानीत्युक्तम् । अनित्यत्वमपि विशेषणमतो न प्रागभावगर्भानुकूलत्वपक्षघटित साध्या सत्त्वान्नित्यकारर्णेSशतो बाधो न चात्मादावंशतः सिद्धसाधनम् । न चैवमपि कारणतावच्छेदकतत्तद्धर्म्ममादायातीन्द्रिय कारणेंऽशतः सिद्धसाधनमिति वाच्यम्, अनुकूलत्वस्य प्रागभावगर्भस्य निर्वचने तदप्रसङ्गात् । साध्ये च स्वजन्यत्वं स्वनिमित्तकारणकत्वमतो न गुरुत्वादिमति कारणेऽशतः सिद्धसाधनम् । तदन्यस्यैव वा पक्षत्वम् । तथा सति [१] तज्जन्यस्यादिविशेषणं ताद्रूप्यसिद्धये । जनकत्वं चानुकूलत्वम् । क्वचित् पाठ एव तथा । बहिरिति । दाहानुकूलत्वं तादूपयसिद्धये । नन्वनुकूलत्वं यदि जनकत्वं तदा बाधो [२] यदि च कार णतावच्छेदकत्वं तदा दृष्टान्तासिद्धि [३] रत आह—- अनुकूलत्वं चेति । अ-


  1. स्वजन्यत्वादिविशेषणं तद्रूपासिद्धये इति पाठो द्वितीयपुस्तके ।
  2. मीमासकैः शक्तेः कारणतानुपगमात् ।
  3. दृष्टान्तस्यादृष्टवामनः स्वतः परतश्चासिद्धिरदृष्टस्य कारणतावच्छेदकतायाः केनाप्यनभ्युपगमात् ।