पृष्ठम्:न्यायलीलावती.djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
न्यायलीलावती


नापि ज्ञातता । निराकरिष्यमाणत्वात् । नापि वैशिष्टयम् ।


न्यायलीलावतीकण्ठाभरणम्

तत् पदार्थान्तरं स्यादित्यत आह - नापीति । नापि वैशिष्ट्यमिति । प-

न्यायलीलावतीप्रकाशः

धारणमिति नासिद्धिः स्वतः परतो वा । न चात्मत्वमुपाधिः सामान्यानुमाने अन्त्यशब्दध्वंसकारणकालाकाशयोः*साध्याव्यापकत्वात्। विशेषे दाहानुकूलौष्ण्यवति तेजोयणुके साध्याव्यापकत्वादित्यनुमानं शक्तिसाधकमित्यपास्तम्, प्रतिबन्धकाभावेनान्यथोपपत्तेर्भावभूतेतिविशेषणवैयर्थ्यात् । अन्यथा शक्तिसिद्ध्यनन्तरं शक्तिभि नत्वेन साध्यविशेषणात्, तत एव शक्तिभिन्नधर्मसिद्ध्यापत्तेरिति संक्षेपः । विस्तरस्तु "कुसुमाञ्जलिप्रकाशे" ।

 ज्ञातो घट इति विशिष्टबुद्धे र्विशेषणविशेष्ययोः स्वरूपमेव स म्बन्धो हेतुः, अन्यथा ज्ञानेन ज्ञातताधानेऽपि नियमो न स्यादतीता दौ तदसम्भवश्चेत्याशयेनाह - नापीति । तदननुभवात् सप्तमपदार्थत्वेनेति शेषः । न हि वैशिष्ट्यानुभव एव नास्ति दण्डीतिवत् घटाभाववभूतलमिति प्रतीतेः । ननु विशिष्टव्यवहारत्वेन विशेषणविशेष्यसम्बन्धस्य निमित्तस्यानुमानं क्लृप्तसम्बन्धबाघे त-

न्यायलीलावतीप्रकाशविवृतिः

त्राभावपदं प्रागभावपरम् । व्याप्यत्वं च कालगर्भम् । इदं च समाधिसौकर्यात् । वस्तुतः कारणतावच्छेदकत्वमनुकूलत्वम् । न चाप्रसिद्धिः । धर्मत्वादिकमादायादृष्टस्य दृष्टान्तत्वात् । न च गुणगतजात्यनङ्गीकारे नैवमिति वाच्यम्, परमते धर्म्मत्वादिकं स्वमते तु शक्तिमादायादृष्टस्य दृष्टान्तत्वसम्भवादिति रहस्यम् । अन्त्येति । न चात्मत्वमपि कालेऽस्त्येवेति वाच्यम्, तस्य समवायेनोपाधित्वमित्याशयात् । प्रतिबन्धकाभावेनेति । इदमुपलक्षणं प्रत्यक्षत्वरूपपक्षधर्मावच्छिन्नयथाविवक्षितसाध्यव्यापकस्यात्मत्वस्य सामान्यानुमाने, शुद्धसा- ध्यव्यापकस्य च द्वितीयानुमाने उपाधित्वसम्भवाच्चेत्यपि द्रष्टव्यम् । इदमेवाभिसन्धायाह — विस्तर इति ।


 * तव मत इत्यादि । शब्दाना मीमांसकैर्नित्यत्वाभ्युपगमात् ।