पृष्ठम्:न्यायलीलावती.djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


घटाभावभूतलयोस्तदननुभवात् । इह भूतले घटो नास्तीति व्यपदेशमात्रम् । असति सम्बन्धेऽत्र घटाभावो नान्यत्रेति व्यपदेशे किं नियामकम् । एतद्भूतलसम्बन्धेन प्रतियोगिना अभावनिरूपणम् । दण्डिपुरुष इत्यत्र तु गुरुत्वप्रतिबन्ध-

न्यायलीलावतीकण्ठाभरणम्

दार्थान्तरमिति शेषः । व्यपदेशमात्रमिति | वस्त्वननुरोधी व्यपदेश इत्यर्थः । ननु व्यपदेशस्यैव प्रतिनियतत्वात् वैशिष्टयं स्वीकरणीयमित्याशङ्कते — असतीति । यत्र प्रतियोगी समारोप्यते तदेवेहेति व्यपदेशभाजनं भवति । समारोपश्चाहार्थ्यः, स्वरसवाही वेति । विशिष्टयुद्धौ न विशेष इति परिहरति - एतदिति । एतद्भूतलसम्बन्धित्वेनारोपितेनेत्यर्थः । वस्तुतस्तु अभावभूतलयोः स्वरूपसम्बन्धो ज्ञानविशेष एव वा वैशिष्टयम् । ननु अभावविशिष्टप्रतीत्यनुरोधाद्वैशिष्ट्यं मा सिद्धयतु, भावविशिष्टधीरेव समूहालम्बनाद्विलक्षणा वैशिष्ट्ये प्रणमित्यत आह ~~-दण्डीति । समूहालम्बने विशेष्यस्य विशेषणाधारत्वं न

न्यायलीलावतीप्रकाशः

त्रैव सम्बन्धान्तरे पर्यवस्थतीत्यत आह - इहेति । व्यपदेशमात्रमिति । मात्रपेदन सम्बन्धनैरपेक्ष्यमुक्तम् । एतद्भूतलेति । एतद्भूतलसम्बद्धतयारोपितेनेत्यर्थः । अत्यन्ताभावे प्रतियोग्यधिकरणयोः सम्बन्धाभावात् । न चैवमेतद्भूतलनिष्ठतया ज्ञातप्रतियोगिनिरूप्यत्वस्यैवाभावेनाधिकरणसम्बन्धरूपत्वाद्व्यपदेश मात्रमित्यनेन विरोधः, एतस्य व्यपदेशनियामकमात्रतयाऽभिधानेन व्यपदेशविषयानभिधायकत्वात् । तथा च यत्सम्बद्धतयारोपितेन प्रतियोगिनाऽभावो निरूप्यते तत्र सप्तमी प्रयुज्यत इति तात्पर्यम् । दण्डीति । दण्डी पुरुष इ-

न्यायलीलावतीप्रकाशविवृतिः

 सप्तमपर्दार्थत्वेनेति । सम्बन्धिद्वयभिन्नत्वेनेत्यर्थः । सम्बन्धेनैरपेक्ष्यमिति सम्बन्धिद्वयातिरिक्त सम्बन्धनैरपेक्ष्यमित्यर्थः । तेन प्रागुक्तेन "न हि वैशिष्टयानुभव एव नास्ती"त्यादिना न विरोधः । तथा चेति । इदं च यथाश्रुतमूलानुसारेणोक्तम् । वस्तुतः स्वरुपसम्बन्धस्यैव नियामकत्वे तात्पर्यभतो न "न हि वैशिष्टये" त्या