पृष्ठम्:न्यायलीलावती.djvu/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
न्यायलीलावती


कत्वं पुरुषस्य दण्डाघारत्वं प्रतीयते व्यपदेशमात्रं वा । बिपरीतस्तु न व्यपदेशोऽनभिधाननिरस्तत्वात् ।तद्धि तस्य

 विशेषणं विशेष्यं च तत्सम्बन्धफलार्पकम् ।


न्यायलीलावतीकण्ठाभरणम्

भासत इति विशेषः । ननु दण्डीत्यत्राधारत्वानुभवो नास्तीत्यनुशयेनाह–-व्यपदेशमात्रमिति । तर्हि पुरुषी दण्ड इत्यपि स्यात् नियामकाभावादत आह - विपरीत इति । अप्रयोगादेवाप्रयोग इति भावः । इदानीं व्यपदेशप्रतिनियममुपपादयति- विशेषणमिति । यद्वस्तुतो वि-

न्यायलीलावतीप्रकाशः

त्यत्र वैशिष्ट्यं न प्रतीयते अपि तु दण्डाधारत्वम् । तच्च दण्डगुरुत्वप्रतिबन्धकत्वमित्यर्थः । न च गुरुत्वप्रतिबन्धकत्वं गुरुत्वकार्यपतनहेत्वभावप्रतियोगिसंयोगवत्त्वम्, तच्च दण्डस्याऽव्यस्तीति सोऽव्याधारः स्यात्, प्रतिबध्यगुरुत्वानाश्रयत्वे सतीतिविशेषणात् । यद्वा दण्डीत्यत्र संयोगमात्रं विशेषणतयाभिमतं न तु पराभिमतं पदार्थान्तरमित्याह – व्यपदेशमात्रं वेति । नन्वेवं संयोगाधारत्वाविशेषात् पुरुषी दण्ड इत्यपि व्यपदेशः स्यादित्यत आह - विपरीतस्विति । पूर्वेषां प्रयोगाभावादाधुनिकानामप्रयोग इत्यर्थः । विशेषणमिति । न च प्राक् ज्ञानविशेषो वैशिष्ट्यमित्युक्तमिदानीं च विशेषणाद्यात्मकं तदुच्यत इति विरोधः, उभयोर्यः सम्बन्धो वैशिष्ट्यं तत्फलार्पकं ज्ञानरूपं वै शिष्टयमिति कीर्तितम् । तयोः कयोरित्यपेक्षायामुक्तं विशेषणं विशेष्यं चेत्यर्थात् । ननु यथार्थविशिष्टज्ञानस्य विशेषणविशेष्यसम्बन्धनिमिचकत्वादभावे संयोगबाधेऽतिरिक्तं वैशिष्ट्यं सम्बन्धः सिद्धघेत् अन्यवा समवायोऽपि न सिद्धयेत् तत्रापि ज्ञानविशेषेणोपपत्तेः । व्यपदेशमात्रत्वे तु निरर्थकत्वापत्तिः । न च स्वरूपसम्बन्धेन सिद्धसाधनं तस्य तत्तत्सम्बन्धिरूपत्वेनाननुगतत्वात् । नाप्येतद्भूतलसम्बन्धेनेत्यायुक्तं नियामकं अभावं प्रत्यधिकरणोल्लेख स्यान्येन सम्बन्धे

न्यायलीलावतीप्रकाशविवृतिः

दिना विरोध इति ध्येयम् । वैशिष्ट्यम् अतिरिक्तवैशिष्टयम् । विशेषमतयेतिः । इदं व संयोमप्रकारक्रज्ञानमाभिसम्घाय, अन्यथा तु खं