पृष्ठम्:न्यायलीलावती.djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
न्यायलीलावतीकण्ठामरण- सविवृतिप्रकाशोद्भसिता


ज्ञानरूपं स्वसामर्थ्याद्वैशिष्ट्यमिति कीर्तितम् ॥


न्यायलीलावतीकण्ठाभरणम्

शेषण यंत्र विशेष्यं तयोर्यत् सम्बन्धफलं विशिष्टव्यपदेशादि तदर्पकं तज्जनकं ज्ञानरूपमेव ज्ञानविशेष एवेत्यर्थः । तथा च विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गाग्रहकृत विलक्षणज्ञानं प्रतिनियतव्यपदेशहेतुरिति भावः । ननु संयोगाद्यविशेषेऽपि कुत एवमित्यत आह -स्वसामर्थ्यादिति । स्वभा वविशेषात्तादृशादित्यर्थः । ननु ज्ञानविशेषोऽनुपलम्भबाधितः विशि ष्टव्यहारहेतुश्च ज्ञानविषययोर्वैशिष्ट्यमन्तरेणानुपपन्नः । स्वरूपसम्बन्ध्रश्च स्वरूपाणामानन्त्यादनन्त इति सकलाभावसाधारणं वैशिष्टयमेबमभ्युपेयमिति चेन्न तथा सति तद्वत्यपि तदभाववैशिष्टयधीप्रसङ्गात् तदितराभावस्य वैशिष्टयेन तत्राभ्युगमात् । न च समवायप्रतिवन्दी वैशिष्ट्ये सर्वेषामभावानां वैशिष्टपस्याभ्युपगमेऽनवस्थापसिद्धान्तौ तेनैव तघवहारे स्वात्मवृत्तित्वं तत्र स्वरूपसम्बन्धेन

न्यायलीलावतीप्रकाशः

नानुपपादनात् । तथा हि एतद्भूतलसम्बन्धः प्रतियोगी तदभाववश्चेत्येव स्यान्न त्वभाववद्भूतलमिति दण्डी पुरुष इत्यत्रेत्यपि न युक्तम् । आधारत्वाभिधानेऽपि वैशिष्टयस्यानुभूयमानस्यानुपपादनात् तस्य ततोऽन्यत्वात् । नाप्यनभिधानं तथा विवक्षायां पुरुषी दण्ड इत्यस्य प्रयोगस्य सम्भवात् । न हि पूर्वेषां प्रयोग आधुनिकप्रयोगहेतुः, पूर्वप्रयोगमज्ञात्वाऽपि वाक्यार्थज्ञाने विवक्षायां चामिनबकाव्यादिप्रयोगात् । नापि ज्ञानरूपं वैशिष्टयमचाक्षुषत्वाद्यापत्तेः । अत्राहुः | वैशिष्टयस्य समवायवदेकत्वे घटाभाववति पटवति पटाभावधीप्रसङ्गः घटाभाववैशिष्टयस्यैव पटाभाववैशिष्ट्यरूपत्वात् । न च पटाभाववैशिष्ट्यसत्त्वेऽपि पटाभावो नास्ति तस्य तद्भिन्नत्वादिति वाच्यम्, पटाभावाभावस्याभावत्वे वैशिष्ट्येन सम्बन्धेन तत्र

न्यायलीलावती प्रकाशविवृतिः

सर्गविधयेति द्रष्टव्यम् । एवं च व्यपदेशमात्रमितिमूलस्यातिरिक्तवैशिष्ट्याभानमात्रे तात्पर्य्यम् । तस्येति । अन्यथा समवायोऽपि न सिघ्घोदीति भावः । पटाभावाभावस्येति । तथा चं पटाभावाभावानुरोधे-