पृष्ठम्:न्यायलीलावती.djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
न्यायलीलावती

न्यायलीलावतीप्रकाश:

सत्वात् । भावत्वे च पटस्य प्रतिबन्धकत्वे पटाभावस्य पटाभावधीहेतुतापत्तेः, तस्य च वैशिष्ट्य सम्बन्धेन तत्र सत्त्वात् । वैशिष्ट्यस्य प्रत्यभावव्यक्ति नानात्वे विशिष्टबुद्धौ नेकः सम्बन्धो निमित्तमिति तत्तदभावविशिष्टवाने तत्ततस्वरूपा विशेषणतैवाननुगता निमित्तमस्तु किमनन्तवैशिष्ट्यैनेति ।

न्यायलीलावतीप्रकाशविवृतिः

नापि [१] तत्र वैशिष्टयसत्त्वमावश्यक मिति भावः । नन्वेवं समवायस्यैकत्वे वायौ रूपविशिष्टप्रत्ययोत्पत्तिस्तथापीति चेन्न तस्य रूपानधिकरणस्वभावत्वात् । न चैवं श्यामघटे भाविरक्तरूपविशिष्टप्रत्ययापत्तिः, तद्रूपस्य तदानीमभावात् । प्रत्यक्षे विषयस्यापि कारणत्वात् । पटाभावस्यैव [२] तदान्यत्र विद्यमानत्वात् । न च तवापि कथं न तत्र पटाभावविशिष्टधरिति वाच्यम्, कालविशेषावच्छेदनैव तस्याधिकरण विशेष सम्बन्धात्मकत्वात् । न चैवं वैशिष्टयस्यापि कदाचिदेवाधिकरणविशेषसम्बन्धात्मकत्वमिति वाच्यम्, सम्वन्धाभावे तथाऽदर्शनात् । न चान्यत्र स्वरूपसम्बन्धेनेतद् इष्टमिति वाच्यम् एवमपि तत्तत्कालवैशिष्टस्य [३] सम्बन्धत्वेऽननुगमतौल्ये क्लृप्तस्यैव स्वरूपस्य सम्बन्धत्वकल्पनात् । समवायस्थले त्वनुगतस्य समवायस्य सम्बन्धत्वेऽप्यधिकरणस्वाभाव्यादेव प्रत्ययोपपत्तेरित्युक्तत्वादिति । मिश्रास्तु वैशिष्ट्यस्वीकारे ध्वंसनाशापत्तिः, नित्य सम्बन्धिकारणनाशत्वेनैव नाशकत्वात् । न च समवायिनाशत्वेन नाशकता समवायत्वस्य जातेरभावे नित्यसम्बन्धस्यैव तथात्वात् । एतञ्च [४] समवायान्यत्वविशेषणे गौरवात् । [ न चाखण्डस्यैव समवायस्यावच्छेदककोटिनिवेश इति वाच्यम्, किञ्चिद्धमलिङ्गताया एव व्यक्तेरवच्छेदकत्वदर्शनादित्यधिकः पाठो द्वितीया दर्शपुस्तके | ] न च जन्यभावत्वं नाश्यतावच्छेदकमतो न ध्वंसनाश इति वाच्यम्, प्रागभाव साधारण [५]स्य कादाचित्कत्वमात्रस्यैव लाघवेन तथात्वात् । न चैवं तवापि ध्वंसनाशापत्तिः, नाशकाभावात् । नित्यस्येत्यादिव्याप्तौ च नित्यपदस्यैव कालिकपरत्वात् । अन्यथा


  1. 'पटाभावानुरोधनापि’।
  2. 'वस्य च तस्येव तदा
  3. 'कालविशिष्ट्वैशिष्टयस्य' ।
  4. 'तत्र' ।
  5. 'रण्यस्य' ।