पृष्ठम्:न्यायलीलावती.djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


 आधारत्वं तु गुरुत्वप्रतिबन्धकत्वं कचित्समवायिकारणत्वमभिव्यञ्जकत्वं वेत्यूहनीयम् । अन्यथा तस्योभयवृत्तित्वेनोभय-


न्यायलीलावतीकण्ठाभरणम्

तव्घवहारे प्रथमवैशिष्ट्यस्यापि किमङ्गीकारेणति विशेषात् । निरस्ता चेयं "मणिमयूस्वे" विस्तरेण ।

 आधारत्वमिति । प्रतिबध्यपतनानाश्रयत्वे सति पतनप्रतिबन्धकसंयोगवन्मूर्त्तत्वम् । तर्हि पटे शौक्ल्यमिति घोर्न स्यादित्यत आह -- क्कचिदिति । कथं तर्हि गवि गोत्वमित्याधारत्वधोरित्यत आह-व्यञ्जकत्वञ्चेति[१] । सामान्यतो विशेषणवत्त्वं आधारत्वम् । विशेषणत्व चाधेयत्वम्। विशेषणवत्ता च क्वचित् समवायेन क्वचित् संयोगेन क्वचित् स्वरूपसम्बन्धेन यद्यपि, तथापि अनेनोपाधिनानुगतधीः । अत एव दध्नि कुण्डमिति न धीः कुण्डस्य दधिविशेषणत्वेनाप्रतीतेः । प्रतीतौ वा

न्यायलीलावती प्रकाशः

 गुरूत्वेति । यथा कुण्डे दधीत्यत्र । तन्तुषु पटः पटे शुक्ल इत्यत्र स मवायिकारणत्वम् । समवायित्वं कार्येऽपि वत्तत इति तद्व्यावर्त्तनाथें कारणेत्युक्तम् । समचायिकारणस्य क्वचिदभिव्यञ्जकत्वेऽपि क्वचि

न्यायलीलावतीप्रकाशविवृतिः

चरमक्रियाध्वंसस्य प्रतिबन्धकाभावत्वेन समानाधिकरणक्रियां प्रति योग्यत्वेऽपि कुतो न फलोपधानमिति वदन्ति । तञ्चिन्त्यम् । गुणत्वावच्छिन्न प्रतियोगिक सम्बन्धिनाशत्वेनैव नाशकत्वात् [२] । न चैवं गौरवम् । तथापि [३] ध्वंसाप्रतियोगित्वरूपनित्यत्वविवेचने [४] गौरवादिति । नवीनास्तु । अभावनिरुपिताधारताप्रयोजकसम्बन्धवत्त्वमेवाभावाधिकरणताप्रयोजकमनुगतत्वात् । भावे तु नैवं गोत्वे गौरितिप्रत्ययापत्तेरित्यननुगतमे वाधारताप्रयोजक मिति वदन्ति । तत्तुच्छम् । अनुगतभावाधिकरणत्व नियामक निर्वाहाय भाव एव स्वरूपसम्बन्धस्वीकारे वैपरीत्यापत्तेरिति दिक् ।

 क्वचिदभिव्यञ्जकत्वेऽपीति । अभिव्यञ्जकत्वं तद्विषयकप्रतीतौ नियमतो विषयत्वम् । तच्च रूपादिकं प्रति घटादेरस्त्येवेत्य-


  1. "अभिव्यञ्जकत्व वेति" मूलानुसारी पाठ ।
  2. गुणात्वावच्छिन्न सम्बन्धिनाशकत्वात् ।
  3. तवापि ।
  4. 'स्वनिर्वचने गा०' ।