पृष्ठम्:न्यायलीलावती.djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

तथा प्रतीतावपीष्टत्वात् । आश्रयासिद्धिरपि तद्विशेषणवत्तासिद्धिरेवानुगता। भूतले घटाभाव इत्यत्रापि अभावस्यैव विशेषणत्वम् । अत एव सन्निकर्षोऽपि स एव । ननु सम्बन्ध एव कश्चिदाधारत्वं स्यादित्यत आह - अन्यथेति । ननु सामान्यवृत्तित्वात् सामान्यादिभिन्नं सादृश्यं पदार्था- न्यायलीलावतीप्रकाशः न तथेति तस्य पृथुगुपादानम् । यथा समवायिकारणत्वेऽप्याकाशस्य नाभिव्यञ्जकत्वम् । इह गवि गोत्वमित्यत्र व्यक्तेर भिव्यजकत्वम् । अन्यथेति । एकवृत्तित्वानङ्गीकार इत्यर्थः । अनुगतं त्वाधारत्वं धर्मसम्बन्ध एव, धर्मश्च कुडम्य दधि, तन्तूनां पटो, व्यक्तेश्च गोत्वम् । तत्सम्बन्धस्य त्वप्रत्ययेनाभिधानम्। स च क्वचित्संयोगः क्वचित्समवायः क्वचिद्विशेषणता । सम्बन्धस्योभयवृत्तित्वाद्दध्याद्यपि कुण्डाद्याधारः स्यादित्यत्र क्वचिदिष्टापत्तिः, कुण्डे दधीत्यनया च प्रतीत्या दध्यादिकं प्रति कुण्डादेर्धर्मतानुल्लेखान्न तथा प्रतीतिः कुण्डसंयोगो दध्नीत्यादौ तथा प्रतीयत एव कुडस्याधेयकोटिप्रविष्टत्वात् । विशिष्य तु

न्यायलीलावतीप्रकाशविकृतिः

र्थः । धर्मसम्बन्ध इति । आकाशं च यदि निरधिकरणं तदा धर्मत्वमत्र वृत्तिमत्त्वम् | क्वचिदिति । प्रतीताविति शेषः । विशिष्येति । संयोगेन सम्बन्धेन गुरुणो द्रव्यस्य पतनप्रतिबन्धकत्वमित्यर्थ: [१] । दण्डादावतिव्याप्तिवारणाय सत्यन्तम् । पुरुषस्यापि कदापि कदाचित् प्रतिबध्य [२] पतनाश्रयत्वात्तत्तत्पदम् । पुरुषान्तरस्यापि तदाधारत्वप्रसङ्गवारणाय द्वितीयं तत्तत्पदम् । पतनप्रतिबन्धकत्वं संयोगाधारस्य पुरुपस्यापीति पुरुषावयवेऽतिव्याप्तिवारणाय संयोगपदम् । मेघादिपतनप्रतिबन्धकसंयोगवत्त्वमीश्वरस्यापीति तत्राप्याधारत्वव्यवहारः प्रसज्येतेति मूर्त्तपदम् । पतनप्रतिबन्धकत्वं च पतनप्रागभावप्रयोजकत्वं न तु पतनकारणीभूताभावप्रतियोगित्वं मूर्त्तपदव्यर्थतापत्तेः । न च पतनविशेषगर्भत्वे यदपतितमेव नष्टं तत्राप्रसिद्ध्या तदाधारत्वे लक्षणाव्याप्तिः । एतस्य विशेषलक्षणत्वेन तस्यात्रालक्ष्यत्वात् । अत एव पतनाश्रयत्वगर्भतयापि नात्माश्रयः, तद (न्य?).


  1. ' णो द्रव्यस्येत्यर्थः ।
  2. 'तिबन्ध प० ।'