पृष्ठम्:न्यायलीलावती.djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


त्रापि सप्तमी स्यात् । एकवृत्तित्वे च सम्बन्धत्वव्याकोपः ।


न्यायलीलावतीप्रकाशः

तत्तत्प्रतिबध्यपतनाश्रयान्यत्वे सति तत्तत्पतनप्रतिबन्धकसंयोगवन्मूर्त्तत्वमाधारत्वम्, ईश्वरक्ष्चामूर्त्त इति नाधारः । न च सहैव कुण्डेन पतति दध्नि तदसम्भवः, तदा कुण्डस्य तदनाधारत्वात् पतनविशेषप्रतिबन्धकत्वाद्वा अननुगतमेव वाऽधारत्वम् । आधारशब्दश्च गोशब्दवदनेकार्थः । अनुगतधीश्च शब्दमात्रानुगमात् । न चैवमधिकरणताभेदे सत्याश्रयासिद्ध्यादेर्भेदप्रसङ्गः, यत्र येन रूपेण सिद्धिर्विवक्षितागमकत्वाय तत्र तदपगम इत्यनुगमात् । सर्वनाम्नामनुगतेन रूपेण बुद्धिस्थत्वादिना तत्तद्विशेषप्रतिपादकत्वमिति व्युत्पत्तेः । एवमाधेयत्वमपि वाच्यमिति सम्प्रदायविदः ।

न्यायलीलावतीप्रकाशववृतिः

स्यैव लक्ष्यत्वात् । मिश्रास्तु । पतनप्रतिबन्धकतावच्छेदकावच्छिन्नतत्तत्संयोगवत्वं विवक्षितम् । प्रतिबन्धकतावच्छेदकं क्वचित् स्वाधिकपरिमाणनिविडद्रव्यसंयोगत्वम् । यथा दण्डसंयोगादौ । क्व- चित्प्रान्तर्वर्त्तिसमानपरिमाणसमुदितसंयोगत्वम् । यथा गृहधारकस्तम्भसंयोगादौ । क्वचिजलविशेषसंयोगत्वम् । यथा नौकादिधारकजलसंयोगादौ । सर्व्वत्र प्रतिबन्धकतावच्छेदकत्वमनुगमक[१] मित्याहुः । एतेन धर्मत्वमेवाधेयत्वं सामान्यतो, विशिष्य तु प्रतिबध्यपतनाश्रयत्वं तद्योग्यत्वं वेत्यपि सुचितम् । तदा कुण्डस्यानाधारत्वे दध्नः पृथक्पातापत्तिरित्यरुचेराह – पतनविशेषेति । कुण्डावच्छिन्नदेश संयोगरूपेत्यर्थः । तदपगम इत्यनन्तरमाश्रयासिद्धिरि ति शेषः । “तद्पगमः" सिद्ध्यपगमः । ननु यत्तदन्तर्भावेन निरुक्त मध्यननुगत मेवेत्यत आह - (सर्वना?) म्नामिति । अनुगतसम्भवेऽननुगतं हेयमत्र विशेषाधारत्वस्याननुगमेऽपि सामान्याधारत्वमादायैव पदप्रवृत्तिरित्यस्वरसादाह - सम्प्रदायविद इति । यथाश्रुतग्रन्थानुसारिण इत्यर्थः ।

 नन्वतिरिक्तसादृश्यस्य पदार्थान्तरत्वनिषेधे आश्रयासिद्धिः ।


  1. 'त्वमनर्थकमि०' ।