पृष्ठम्:न्यायलीलावती.djvu/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
न्यायलीलावती


 नापि सादृश्यम् । तद्धि सामान्यादेरनेकवृत्तित्वम् । तच्चैकव्यक्तिग्रहणसमयेऽगृहीतमपि प्रतियोगिग्रहेऽवगम्यत इति सिद्धं


न्यायलीलावतीकण्ठाभरणम्

न्तरं स्यादित्यत आह - नापि सादृश्यमिति । पदार्थान्तरं सामान्य एव तदन्तर्भावादिति शेषः । सामान्यादौ तत् प्रतीतिः कथं स्यादत आह - सामान्यादेरिति । तत्रापि अनेकवृत्तित्वमेव उपा घिसामान्यं सादृश्यमित्यर्थः । यतु सामान्यादेरनेकवृत्तित्वमित्य. नेकवृत्ति सामान्यमेवादूरविप्रकर्षादुच्यते इति व्याख्यानं तदयुक्तम् । सामान्येऽनेकवृत्तित्वविशेषणासभ्भवात् सम्भवव्यभिचारे च विशेषणस्य सार्थकत्वात् । तर्हि व्यक्तिमात्रग्रह एव तद् भासेत न तु प्रतियोगिज्ञानमपेक्ष्येतेत्यत आह - तच्चेति । तद्भिन्नत्वे सति तद्गतभूयोधर्म्मवत्त्वस्योपाधेः सादृश्यत्वेन प्रतियोगिग्रहापेक्षग्रहत्वमित्यर्थ ।रामरावणयोरिवंत्यादौ तदीययुद्धानुकारेण साद्दश्यमिति भावः। सिद्ध्मिति । अयोगव्यवच्छेदान्ययोगव्य

न्यायलीलावतीप्रकाशः

 नापीति । सदृशवुद्धौ विशेषणतया भासमानं न पदार्थान्तरमि त्यर्थः । तद्धीति । यद्यप्येवं सामान्यादिः सदृशः स्यान्न तद्वान् गवादिस्तथाप्यनेकवृत्तिसामान्याद्येव सादृश्यम् । अनेकवृत्तित्वं त्वदूरविप्रकर्षेणोक्तम् । ननु सामान्यं निष्प्रतियोगिकं सादृश्यं तु सप्रतियोगिकं तेन सदृशं इत्यनुभवादित्यत आह - तच्चेति । यद्यपि सामान्यमप्रतियोगिकं तथापि तद्भिन्नत्वे सति तद्द्वतभूयोधर्मवत्वं सादृश्यमतो विशेषणांशस्य सप्रतियोगिकत्वात्तद्विशिष्टमपि तथेत्यर्थः । सामान्यं च जात्युपाघिसाधारणं तेन सामान्ये सामान्यान्तराभावे.

न्यायलीलावतीप्रकाशविवृतिः

सामान्यरूपस्य च तन्निषेधे सिद्धसाधनमत आह - सहशेति । तथा चोभयसिद्धत्वेन रूपेण पक्षतेति नोक्तकल्पावकाशः । “अदूरविप्रकर्षः" स्वसम्बन्धिवृत्तित्वम् । तद्भिन्नत्व इति । तदसाधारणधर्म्मशून्यत्व इत्यर्थः । तस्य च तत्पदार्थनिरूपणाधननिरूपणत्वं सप्रतियोगित्वम् । यथाश्रुते भेदस्य पृथक्त्वरूपस्य सावधितया तस्मात्सदृश इतिप्र-