पृष्ठम्:न्यायलीलावती.djvu/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशाद्भासिता


पडेव पदार्था इति । विचारासहत्वाच्च । तथाहि तत्स्पर्शवन्न वा । नेति पक्षे एकवृत्ति न वा । आद्ये द्रव्यत्वम् । द्वितीये गुणकर्मविशेषान्यतमत्वम् । शेपे संयोगसामान्यसमवायविभागान्यतमत्वम् । गुणवृत्तित्वादि गुणादित्वे न स्यादिति चेत्, गुण-


न्यायलीलावतीकण्ठाभरणम्

च्छेदाभ्यामधिकंत्र्यवच्छेदः पर्यवसन्न एवेत्यर्थः । विचारेति । साहश्यादीनां पदार्थान्तरत्वं विचारं न सहत इत्यर्थः । तमेव विचारमुपक्रमते - तदिति । "परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकत्तापि विरुद्धानामुक्तिमात्रविरोधतः ॥” इति भावः । आद्य इति । स्पर्शवत्त्व इत्यर्थः । द्वितीय इति । निःस्पर्शत्वे सत्येकसमवेतत्व इत्यर्थः । शेष इति । निःस्पर्शत्वे सत्यनेकवृत्तित्व इत्यर्थः । समवायस्यानेकवृत्वं स्वरूपसम्बन्धेन । भावत्वे सत्येतत् द्रष्टव्यम् । भावस्याप्यनेकवृत्तित्वाभ्युपगमात् । गुणेति । आद्येनादिपदेन धर्म्मवृत्तित्वादेः, द्वितीयेन

न्यायलीलावतीप्रकाशः

ऽपि लक्षणरूपोपाधिसत्त्वात् सहशव्यवहार इति भावः । शेष इति । निस्पर्शेकवृत्तित्वशून्य इत्यर्थः । अत्र संयोगपदमनेकवृत्तिगुणोपलक्षणम् । समवायपदं च समवाय्युपलक्षकम् । तेन द्वित्वादिव्योमादीनां नाभावः । नन्वात्मनोऽपि नवमद्रव्यत्वसाधने एतादृशपरिशेषापत्तिः, न, अस्य परिशेषस्यैतत्कोटि चतुष्टयान्तभूर्तत्वेन सादृश्यस्य द्रव्यादिषट्कान्तर्भूतत्वानुमान परत्वात्, आत्मनि चाष्टद्रव्यनियतरूपाभावेन परिशेषानवतारात् । गुणवृत्तित्वादीति | सादृश्यं न गुणः, गुण-

न्यायलीलावती प्रकाशविवृतिः

त्ययापत्तेः । यथाश्रुते द्वित्वादावाकाशादौ व्यभिचारादाह —अत्रेति । तथा चाजहत्स्वार्थलक्षणया संयोगपदं व्यासज्यवृत्तिगुणपरम् । समवायपदं चावृत्तिपरमित्यर्थः । आत्मनि चेति । यद्यपि आत्मा द्रव्यं सत् स्पर्शवन्न वा अद्ये पृथिव्याद्यन्यतमत्वमन्त्ये व्योमाद्यन्यतमत्वमिति कोटिद्वयान्तर्भावेणाण्यत्राटद्रव्यान्तर्भावः साधयितुं शक्य एव । तथापि तद्धर्म्मस्थेच्छादेरष्टद्रव्यावृत्तित्वात् तस्य पार्थक्यम् । न त्वेवमत्रेत्यर्थः । द्रव्यकर्म्मेत्याघुपलक्षणम्, अभावविशेषवहिर्भा-