पृष्ठम्:न्यायलीलावती.djvu/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
न्यायलीलावती


वृत्तित्वादि गुणादित्वे न स्यादिति किं प्रसङ्गमात्रम्, अथ गुणवृत्तित्वादेः स्वीकृतपदार्थातिरेकसाधनम् । नायः । स्वतन्त्रतर्कस्यादूषकत्वात् । नेतरः । उक्तरूपचतुष्टयवहिर्भावस्य


न्यायलीलावती कण्ठाभरणम्

च कर्म्मत्वादिसङ्ग्रहः । सादृश्याधारत्वं वैशिष्ट्यादीनां यदि गुणादित्वं वक्तव्यं तदा गुणादिवृत्तित्वं तेषां न स्यादित्यर्थः । प्रसङ्गेति । प्रसङ्गस्तर्क: । मात्रपदेन प्रमाणानुपग्रह उक्तः । गुणवृत्तित्वादेरिति । सादृश्यादि न गुणो गुणवृत्तित्वादित्याद्यनुमाननेन षट्पदार्थीवहिंभावसाघनमित्यर्थः । स्वतन्त्रेति । दूषणस्यापि प्रमाणोपग्रहसापेक्षत्वादन्यथातिप्रसङ्गादिति भावः । नन्वात्माश्रयान्योऽन्याश्रयादिः स्वतन्त्र एव तर्को दूषणमिति चेन्न, आत्माश्रयादिभिन्नस्य स्वातन्त्र्येण दोषत्वाभावादितिभावात् । यदि गुणः स्यात् गुणवृत्तिर्न स्यादित्यादेरपि स्वातन्त्र्येण दोषत्वं स्यादिति चेन्न, एतस्य विपर्थ्यये पर्यवसन्नत्वेन स्वीकृत पदार्थातिरिक्तसाधनं वेति द्वितीयविकल्पप्रवेशात् । उक्तरूपेति । स्पर्शवत्वं निःस्पर्शैकवृत्तित्वं निःस्पर्शानेकवृत्तित्वं स्ववृत्ति-

न्यायलीलावतीप्रकाशः

समवेतत्वात् । नापि सामान्यं सामान्यवृत्तित्वात् । न समवायः समवायवृत्तित्वात् । द्रव्यकर्मवर्हिभावस्तुभयसिद्ध इत्यर्थः । स्वतन्त्रेति । स्वातन्त्र्यं तर्कस्यानुग्राह्यमानासहकृतत्वम् । यद्यपि द्रव्याद्यन्तर्भावसाधने व्याघातापादकतया तर्कमात्रमपि दूषणं भवत्येव तथाप्यनेन विचारेणोक्कान्तर्भाव प्रदर्शनद्वारा सादृश्यवहिर्भावसाधने बाधकमुव्यते, तत्र च वहिर्भावसाधनमेव दूषणं न तु स्वतन्त्रतर्क इत्यर्थः ।

न्यायलीलावतीप्रकाशविवृतिः

वोऽपि द्रष्टव्यः । यद्यपीति । द्विविधस्तर्क्कः । साधको दूषकः [१]। तत्राद्यस्यैवानुग्राह्यमानापेक्षा न चरमस्येति भावः । तथापीति । नात्र सिद्धान्तिनः सादृश्यान्तर्भावसाघनं मुख्यतोऽभिमतमपि तु बहिर्भावसाधनबाधकतयेति निरुक्ततर्क्केणान्तर्भावसाधन निषेधेऽपि बहिर्भावासिद्धौ तत्साधकं मानान्तरमास्थेयम् । न च तदस्तीत्य-


  1. 'कश्च’ ।