पृष्ठम्:न्यायलीलावती.djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


षट्पदार्थातिरेकित्वस्य विरोधादशक्यसाधनत्वात् ।


न्यायलीलावती कण्ठाभरणम्

त्वं चेत्युक्तरूपचतुष्टयम् । चतुर्थी च कोटिराक्षेपलभ्या विभुचतुष्को- पग्रहाय । पदार्थातिरोकत्वस्येति पूर्व्वविवरणम् । यद्वा उक्तरूपचतुष्टयवहिभीवस्येति । सति सप्तम्यर्थे षष्ठी । ननु सङ्ख्याया गुणादिवृत्तित्वात् पदार्थान्तरत्वमेवं महत्त्वपृथक्तयोरपि । भवति हि महानेकः शब्दः पृथगिति प्रतीतिरिति चेन्न, अग्रे निरसनीयत्वात् ।

 ननु स्वत्वं पदार्थान्तरमस्तु । न हीदं गुणः गुणेऽपिवृत्तेः । प्रतीयते हि अरुणैकहायन्या पिकाक्ष्या गवा सोमं क्रीणातीतिश्रुतेरारुण्यस्यापि साधनत्वम् । न चास्वत्वास्पदेन क्रयः सम्भवति प्रमाणं चात्र प्रत्यक्षमेव । भवति हि चेत्रस्येदं धनमिति चाक्षुषी प्रतीतिः, चैत्रकर्त्तृकक्रियादिज्ञानस्य सापेक्षचक्षुर्वेद्यत्वेऽबाधकत्वात् । न हि इन्द्रियापातमात्रेण ब्राह्मणत्वं वालत्वं च न गृह्यते इति न तयोश्चाक्षुषत्वम् अस्तु वा प्रतिग्रहादिज्ञानसहकृतमनोवेद्यत्वम् । न च प्रतिग्रहादिज्ञानस्य प्रमाणान्तरत्यापत्तिः, क्रयप्रतिग्रहादिज्ञानानामेवावच्छेदका भावात इन्द्रियलिङ्गशब्दादीनां तत्सत्त्वात् ज्ञानत्वस्य चातिप्रसञ्जकत्वात् । यद्वा प्रतिग्रहादिक्रिया प्रतिग्राह्यप्रतिग्राहकनिष्ठसम्बन्धजनिका कर्त्तृकर्म्मनिरूप्याक्रियात्वात् गमनवदित्यनुमानमेव स्वत्वे प्रमाणम् । न च कर्तृकर्म्मभावेन सिद्धसाधनं चैत्रो गांप्रतिगृह्णाति चैत्रस्य गौः स्वमिति प्रतीतिभेदात् । न च चैत्रो ग्रामं त्यजतीति व्यभिचारः कर्त्तृकर्म्मनिष्ठकिञ्चिज्जनकत्वस्य साध्यत्वात्यजिक्रियाया अपि विभागजनकत्वात् । किं च प्रतिग्रहादेराशुविनाशितया चिरभाविनि योगफलाजनकत्वादान्तरालिकस्वत्वाद्यव्यापारसिद्धिः तं विना विनियोगासिद्धेः । क्रियाध्वंसादिना चान्यथासिद्धौ यागानुभवयोरपि अपूर्व्वसंस्कारव्यापारवत्ताभावप्रसङ्गः । चौर्य्यमपि स्वत्वजनकमेवेति चौर-

न्यायलीलावती प्रकाशः

उक्तरूपेति । तत्स्पर्शवन वेत्यादीत्यर्थः । वहिर्भावस्य विवरणं षट्पदार्थातिरेकित्वस्येति ।

न्यायलीलावती प्रकाशविवृतिः

भिसन्धायैतदुक्कमिति भावः । पौनरुक्त्यभयादाह - वहिरिति ।