पृष्ठम्:न्यायलीलावती.djvu/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
न्यायलीलावती


न्यायलीलावतीप्रकाशः

 ननु स्वत्वं पदार्थान्तरमस्तु । तद्धि न सामान्यादित्रयात्मकमुत्पत्तिविनाशशालित्वात् । नापि द्रव्याद्यात्मकं गुणेऽपि वृत्तेः । अथ तत्र मानाभावः । तथा हि तत्र प्रत्यक्षं न मानम् । तद्धि न वाह्य स्वत्वास्पदग्रहेपि तत्र संशयादस्वमितिविपर्ययाच्च । नापि मानसं मनसो बहिरप्रवृत्तेः । स्वत्वमवाह्यमेव वाह्यं तु धनं तस्य निरूपकमात्रमिति चेन्न, उक्तोत्तरत्वात् । प्रतिग्रहादिशानसहकृतमनोग्राह्यमिति चेन्न प्रतिग्रहादिज्ञानस्य मानान्तरतापत्तेः । यदेवासाधारणं सहकार्थ्यासाद्य मनोवहिर्गोचरां प्रमां जनयति, तस्यैव मानान्तरत्वात् । नापि प्रतिग्रहादिक्रिया धनप्रतिग्रहीत्रादि सम्बन्धजनिका कर्तृकर्म-

न्यायलीलावतीप्रकाशविवृतिः

 असहनतया 'विरोधा' दिति फक्किकामव्याख्यायैव शङ्कते – नन्विति । क्वचित्फक्किका व्याख्यानन्तरमेवायमाक्षेप इति क्रमः । गुणेऽपीति । अरुणयेत्यत्रारुण्यगुणस्य क्रयसाधनत्वं प्रतीयते । न च स्वत्वानाश्रयत्वस्य तथात्वं युज्यते परवस्तुस्वत्वोत्पत्स्युपाधिकपरस्वत्वापादनार्थकत्यागकर्म्मत्वाश्रयस्थ क्रयसाधनत्वादिति भावः । गुणकर्म्मनात्मकत्वमप्युक्तहतुनैव साधनीय मिति द्रष्टव्यम् । बाह्यं विति । तस्य चोपनी तस्यापि भानमिति भावः । उक्तेति । धनशाने लशयाभावापत्तेरित्यर्थः । प्रतिग्रहादीति । तथा च व्यञ्जकाभावात् संशय इत्यर्थः । प्रतिग्रहादिज्ञानस्येति । यद्यष्यवाह्यस्वत्वविशेष्यकमुपनीतधन विशेषणकं च ज्ञानं मनसा जन्यत इति न प्रतिग्रहादिज्ञानस्य मानान्तरता । वहिव्विशेष्यकप्रमायां मनः सहकारिणस्तत्त्वात् [१] । स्वत्वविशेषणक [२]ज्ञानं च उपनयसहक्कृतमनोजन्यं प्रमाणान्तरजन्यं च क्वचित् । न चोपनयस्य प्रमाणान्तरता निर्व्यापारत्वादन्यथा कविकाव्यमूलज्ञानजनकोपनयस्यापि तथात्वापत्तेस्तथापि स्वत्वमज्ञात्वा प्रतिग्रहत्वमेव ज्ञातुमशक्यं तद्घटितत्वात्तस्येति न प्रतिग्रहादिव्यङ्गय स्वत्वमि- त्यत्र तात्पर्य्यमिति मिश्राः । केचित्तु | धननिष्ठस्य स्वत्वस्य प्रतीयमानतया वक्ष्यमाणक्रमण च तस्योपपत्त्या नावाह्यं स्वत्वमित्यत्र तात्पर्य्यमित्याहुः । नापीति । न चास्य सम्बन्धस्योभयीयतायामिदं ममेतिवदस्याहमिति स्यादिति वाच्यम्, तस्योभयनिरूप्यत्वेऽप्ये कस्या.


  1. णस्तथात्वात् ।
  2. धनविशेष्यकेन्यधिकः पाठो द्वितीयपुस्तके ।