पृष्ठम्:न्यायलीलावती.djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

स्य तत्र क्रमेण विनियोगः । न च तद्धनविनियोगे शास्त्रशिष्टविभागाभाव [१] प्रसङ्गः, घूतोत्कोचादिसाधारण्यात् । न च पूर्व्वस्वामिना चौरापहृतधनानाच्छेदप्रसङ्गः तदाच्छेदस्यापि श्रौतत्वात्, कु- सीदधनविनियोगवत् चोरितविनियोगे शास्त्रशिष्टविगानाभावाञ्च । न च स्वत्वस्य स्वरूपतस्तद्विनियोगकारणत्वं तदा तदज्ञानदशायां विनियोगानध्यवसायो न स्यात् ज्ञातस्य कारणत्वे क्रयाद्युपायविषयत्वज्ञानमेव तन्त्रं तदन्तरेण स्वत्वस्याप्यज्ञानादिति वाच्यम्, स्वत्वसाधकप्रमाणस्य दर्शितत्वात्, ज्ञायमानस्यैव तस्य विनियोगजनकत्वात् । तज्ज्ञानं च प्रतिग्रहादिज्ञानमन्तरेणेत्यन्यदेतत् । अत एव विनियोगरूपेषु साधनताज्ञानादेव प्रवृत्तौ किं स्वत्वेनेति परास्तम्, तज्ज्ञानस्यान्वयव्यंतिरेकाभ्यां कारणत्वावधारणादिति पूर्व्वपक्षसङ्क्षेपः ।

 अत्रोच्यते । स्वत्वस्योत्पाद्यत्वे कारणाननुगमः । न हि प्रतिग्रहादावैक रूप्यमस्ति येन कारणताऽवच्छिद्यते । शास्त्राविरुद्धार्ज्जनोपायविषयत्वं चेत् तदा तदेवास्तु स्वत्वं किमविवेकेन । एवं सत्युत्पादविनाशप्रत्ययस्तत्र कथमिति चेत् उपाध्युपधानानुपधानाभ्यां दण्डित्वस्येव दण्डसम्बन्धासम्बन्धाभ्याम् । विनियोगश्च तज्ज्ञानाधीनः । तच्च ज्ञानविषयत्वमिव चिरस्थायि । आगमान्तरानन्तरितार्ज्जकागमविषयत्वमेव स्वत्वमनुगतम् । आगमश्च धनार्ज्जनहेतुः क्रिया प्रतिग्रहादि [२]। तदुक्तम्- "सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जय” इत्यादि [३] । अत एव दर्शिते प्रत्यक्षानुमानेऽप्यन्यथासिद्धे । आगमनिषिद्धो धूतोत्कोचादिनापदि कृष्यादिः प्रत्यवायहेतुस्तदर्ज्जिते च विनियोगं प्रति न विशेषः । चौर्थ्यमपि तथा । अत एवा "स्तेयमग्नये काष्ठ" मित्यादिना काष्ठादिस्तेयस्य प्रत्यवायाभाव उक्तः । अरण्यफलादौ च उपादानमेवागमः । न च क्रीत्वा दत्तेऽपि स्वत्वं स्यात् तत्रागमान्तरानन्तरितत्वाभावात् । क्वचित् स्वत्वे स


  1. 'विगानाभा' ० ।
  2. अत एव “आगमोऽभ्यधिको भोगा” दितियाज्ञवल्क्यवचनव्याख्यानावसरे मिताचराकाराः-- "स्वत्वहेतु. प्रतिग्रहक्रयादिरागमः ।" ( २।२१ )
  3. “प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥” इति शेषः । मनुः - १० । १२५