पृष्ठम्:न्यायलीलावती.djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

त्यपि यथेष्टविनियोगप्रतिबन्धो वाचनिकः । यथा - "एको ह्यनीकः (शः १) सर्व्वत्र दानाघमन [१]विक्रय” [२] इत्यादौ, “सा यथा काममश्रीयात् दद्याद्वा स्थावराहत" [३] इत्यादौ च । यदि च स्वत्वं कार्य्यं स्यात्तदा द्रव्यं गुणः कर्म्म चेति विकल्पं न सहेत । क्रयादिश्चागम आरण्यकफलादौ समान इति ।

न्यायलीलावतीप्रकाशः

निरूप्यक्रियात्वात् गमनवदित्यनुमानं तयोः स्वत्वाख्ये सम्बन्धे मानं कर्तृकर्मभावेन सम्बन्धेन सिद्धसाधनात् । न च गन्तृप्रामसंयोगवत् साक्षात्सम्बन्धः साध्यः, ग्रामं त्यजतीत्यादावनैकान्तिकत्वात् । न हि तत्र त्यागक्रियया कर्तृकर्मणोः साक्षात्सम्बन्धो जन्यते । नाप्य र्जितेषु सर्व्वत्र स्वमिति प्रयोगोऽनुगत धर्मनिमित्तकोऽनुगतशब्दप्रयोगत्वात् गोशब्द प्रयोगवदित्यनुमानम्, अक्षाद्यनुगतप्रयोगेऽनैकान्तात् तत्रापि चाक्षादिपदवाच्येऽनुगतधर्म स्वीकारापत्तेः । अथ प्रतिग्रहा.

न्यायलीलावतीप्रकाशविकृतिः

श्रयत्वादपरस्य च प्रतियोगित्वादिन्यथा व्याप्त्यादावण्यगत्यापत्तरिति भावः । धनप्रतिप्रहीत्रादीति प्रकृताभिप्रायम्, कर्त्तृकर्मेति बोध्यम् । अन्यथा दृष्टान्तासङ्गःते: । कर्तृकर्मेति । अस्तिक्रियायां स्वध्वंसप्रागभा वानवच्छिन्नसत्त्वरूपायां कर्तृनिरूप्यायां कर्म्मशुन्यतया कर्म्मसम्बन्धाजनिकायां व्यभिचार इति कर्म्मपदम् । घटं जानामीत्यत्र विषयरूपकम्मनिरूप्यायां ज्ञानक्रियायां व्यभिचार इति कर्तृपदम् । सा च नात्मनिरूप्येति तद्वारणम् । क्रियापदं तु अविगीतक्रियापरम्, चौर्यादिक्रियाव्यभिचारवारणाय क्रियापदस्याविगीतक्रियायामेव लोक प्रसिद्धेः । अत एव चौर्ये अक्रीतिव्यपदेशः । गमनवदिति । उत्तरसं योगावच्छिन्नस्पन्दस्य [४] संयोगवद् द्विष्ठतया उभयनिरूप्यत्व. मिति भावः । सिद्धसाधनादिति । कर्त्तृव्यापार्थ्यकरणव्यापारविषयत्वरू पपरम्परासम्बन्धेनेत्यर्थः । ग्राममिति | विभागस्य द्विष्ठतया विभागा-


  1. 'आधमनं बन्धकत्वेन ख्यातमिति “दायभागतत्त्वे" रघुनन्दनः ।
  2. "दायभगतत्वे" रघुनन्दनभदाचार्य्यण व्यासवचनत्वेन धृतम् ।
  3. "दायमागे" जीमूतवाहनधृतनाव दवचनम् ।
  4. 'गमनस्यै' त्यधिकः पाठो द्वितीयपुस्तके ।