पृष्ठम्:न्यायलीलावती.djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

नन्तरं यथेष्टविनियोगदर्शनात्तयोः कार्यकारणभावः, स च न साक्षात्सर्वत्र प्रतिग्रहादीनां आशुविनाशित्वात्, विनियोगस्य कालान्तरभाविश्वात् । नापि ध्वंसद्वारा, स्मृतेरप्यनुभवध्वंसजन्यत्वापत्तौ संस्कारापलापापत्तेः । प्रतियोगिध्वंसयोरेकत्राजनकत्वात् न तथेति तुल्यम् । तस्मात् प्रतिग्रहादिजन्यो धर्मविशेषः कल्प्यते । स च धनगतः स्वामिनिरूप्यस्तस्य च विक्रयादिना नाश इति मतम् । तन्न, चौ नन्तरं यथेष्टविनियोगात्तत्रापि स्वत्वकल्पनापत्तेः । न चेष्टापत्तिः चौर्य्योपात्तधने यथेष्टविनियोगे शास्त्रशिष्टबिगानानुपपत्तेः, स्वत्वाश्रयत्वाद्विनियोज्यस्य । अपि च तस्य धर्मस्य स्वरूपसतो यथेष्टविनियोगहेतुत्वे मयेदमर्जितमितिज्ञानाभावेऽपि यथेष्टविनियोगापत्तेः । तादृशज्ञान विशेषितस्य च तस्य तद्धेतुत्वे लाघवादावश्यकत्वाच्च तादृशज्ञानस्यैव तद्धेतुत्वापत्तौ तस्यैवासिद्धेः । अत एव प्रतिग्रहादौ नेष्टसाधनताज्ञानं विना प्रवृत्तिरिष्टं च यथेष्टविनियोगान्नान्यत् तेषां चाशुविनाशितया साक्षात् तद्धेतुत्वाभावात् तज्जन्यं धर्मान्तरमस्तीत्यपास्तम् । किञ्च स्वत्वस्य यथेष्टविनियोगहेतुत्वे मानाभावः, विनियोगरुपाया: प्रवृत्तेरिष्टसाधनताधीजन्यतया तन्निरपेक्षत्वात् । न च तद्धर्म्मविशिष्टस्यैवेष्टसाधनत्वमिति वाच्यम्, स्वत्वास्पदानास्पदयो-

न्यायलीलावतीप्रकाशविवृतिः

वच्छिन्न स्पन्दरूपस्प त्यागस्योभयनिरूण्यत्वादिति भावः । न च तदुभयनिष्ठसाक्षात्सम्बन्धधर्ममात्रजनकत्वं साध्यं तथापि संयुतक्रीत्यादौ व्यभिचारादिति भावः । धनगत इति । फलोपपादकस्य व्यापारस्य लाघवेन तत्सामानाधिकरण्यकल्पनादिति भावः । ननु विभागानुपपत्ति[१])र्न स्वत्वबाधिका स्वत्वाश्रयेऽपि शब्दबलेन विनियोगनिषेधात् सत्यन्वये सर्वस्वदाननिषेधवदित्यरुचेराह -अपि चेति । [२] आदिपदसंगृहीतापेक्षया बहुवचनम् । ताइयेति । क्रीतत्वादिविषयकेत्यर्थः । परकीयेति । यद्यपि बलवदनिष्ठाननुवन्धीष्टसाधनत्वं स्वत्वविशिष्टस्यैव तथापि स्वत्वोत्पादकत्वाभिमतप्रतिग्रहादिध्वंसविशिष्टस्यैव तथात्वं न तु पदार्थान्तरकल्पना युक्तंति भावः ।


  1. 'गानुत्पचिर्न' ।
  2. 'तेषां चेती'त्मधिकः पाठो द्वितीयपुस्तके ।