पृष्ठम्:न्यायलीलावती.djvu/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
म्यायलीलावती


न्यायलीलावतीप्रकाशः

र्विनियोगे फले विशेषाभावात् । न हि परकीयस्वत्वास्पदान्नभक्षणे न बुभुक्षा प्रशाम्यति । मैवम् । शब्द एव हि स्वत्वे मानम् । तथा हि या क्रिया क्रयप्रतिग्रहादिः स्वत्वहेतुत्वेन धर्मशास्त्रेण बोध्यते तत एव तदुपाते धने स्वत्वमुत्पद्यते । चौर्थ्यादितु न तथेति म तदुपात्ते स्वत्वम् । अत एव स्वत्वे सत्यपि यथेष्टविनियोगनिषेधोऽपि शाब्द एव यथा-

"विभक्ता वाऽविभक्ता वा दायादाः स्थावरे समाः ।
नैकः कुर्यात् क्रयं दानं परस्परमतं विना ॥” [१]

इत्यनेन सुतानामसम्मतौ दानविक्रयादिनिषेधः स्मर्य्यते ।

यथा वा-
 "सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्य्रमिष्यते ।
 सा यथाकाममश्रीयादद्याद्वा स्थावराहते ॥" [२]

न्यायलीलावतीप्रकाशविवृतिः

अत एवेति । यत एव स्वत्वं शाब्दमत एव तद्वलेन स्वत्वे सत्यपि क्कचिद्विनियोगविशेषनिषेधोऽपि शाब्द इति भावः । स्थावराहत इति । एतच्च पतिदत्तमात्रविषयम् । अन्यथा

“सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।
दाने च विक्रये चैव यथेष्टं स्थावरेष्वपि” ॥ [३]

इत्यनेन विरोधापत्तेः । यद्व्यतिरेकेणेति । अत्रासम्भवनिश्चयोऽभावापादनं यदीदं न क्रियेत यथेष्टं न विनियुज्येतेत्यादिरूपम् । विनियोगोपायविषयत्वं चौरगृहीतेऽपीति शास्त्राविरुद्धत्वमुपायविशेषणम् । तावमात्रं च क्रीत्वा विक्रीते ऽपि गतमतीतेऽपि क्रये तद्विषयतायाः स्वयमुग्गमादिति यद्व्यतिरेकेणेत्यादि । न च तत्र क्रीतत्वव्यतिरेक प्रयुक्तो बेनियोगाभावनिश्चयः किनाम विक्रीतत्वप्रयुक्तः [४] । ननु विषयत्वं विशेषणमुपलक्षणं वा आद्ये क्रियाया आशुविनाशित्वेन उत्तरका


  1. "दायभागतत्वे” रघुनन्दनेन किञ्चिदन्यादृशानुपू व्यासवचनतया धृतम् ।
  2. तत्रैव तेन कात्यायननारयोर्वचनत्वेन समुद्धृतम् । सुदार्येभ्यः पितृमातृभर्त्तृकुलसम्बन्धिभ्यो लब्धं सौदायिकम् ।
  3. "दायभागे” जीमूतवाहन धृतका व्यायनवचनम् ।
  4. प्रयुक्तत्वं स्वरूप सम्बन्धविशेषः ।