पृष्ठम्:न्यायलीलावती.djvu/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशाद्भासिता


न्यायलीलावतीप्रकाशविवृतिः

लमस्वत्वापत्तिः । नोपलक्षणं क्रीत्वा विक्रीते प्रसङ्गतादवस्थ्यात् । न च तत्र तादृशापादनाभावादेव न तद्विशिष्टं स्वत्वमिति वाच्यम्, तादृशापादनस्य विशेषणतायां सुप्तस्य स्वत्वोच्छेदापत्तिरित्युपलक्षणत्वे प्रसङ्गसम्भवात् । अत्र मिश्राः । आपादनयोग्यतैव लक्षणप्रविष्टा । योग्यता च शास्त्राविरोध्युपायान्तरानन्तरितत्वमेव । एवं च शास्त्राविरुद्ध विनियोगोपायसमानकालीन शास्त्रविरोधिविनियोगविरोध्युपायप्रतियोगिकयावदनादिसंसर्गाभावत्वं स्वत्वम् । क्रयेण स्वत्वमिति व्यपदेशस्तु सुवर्णेन धनीतिवत् सामान्यविशेषभावादुपपादनीयः । विक्रयेण तन्नाश इतिव्यपदेशस्तु यत्किञ्चित्समुदायिनाशेनैव समुदायनाशव्यवहारादुपपादनीयः । न च स्त्रीसौदायिकाव्याप्तिः, तत्र यथेष्टविनियोगाभावादिति वाच्यम्, तद्विनियोगोपायविषयत्वं तद्विनियोग प्रयोज की भूत [१] स्वत्वविषयत्वरूपमित्याशयात् । वस्तुतः सौदायिके यथेष्टविनियोगयोग्यत्वमेव । अत एव दानं तत्र सिध्यत्येव पुरुषस्तु प्रत्यवैति निषेधबलादन्वये सति सर्वस्वदानवदतिथावभोजिते स्वीयान्नभोजनवच्च । इदं च स्वत्वं पत्न्यादावपि दानविषयत्वात् [२] । अत एव तत्र दानादिनिषेधोऽपि । तद्दानं न भवत्येव । किन्तु दानप्रतिरूपकम् । दानप्रतिषेधस्तु यथेष्टविनियोगात्मकस्वत्वनिषेधपर एव । विनियोगविशेषस्तु स्वत्वेऽसत्यपि वचनबलादेवेत्यपि कश्चित् । न चैवं कृष्यर्ज्जितधने निषिद्धप्रतिग्रहार्ज्जितधने च ब्राह्मणस्थ स्वत्वं न स्याच्छास्त्रविर धादिति वाच्यम्, उपायत्वे कृप्यादीनां शास्त्रविरोधेऽपि तदुपात्तधनविनियोगस्याविगानात् । चौर्ये तूपायत्व इव विनियोगोऽपि विगानमेव । यत्तु कृष्यादौ नोपायत्वविगानमपि तु तस्मिन्नुपाये ब्राह्मणादिविषयत्वविगानमित्यविगीतोपायत्वमेव तत्रेति । तन्न । तथा सत्यनन्यगतिकतायां मातापित्रादिभरणार्थं नित्यदेवपूजार्थं च भक्ष्यपुष्पर्चौर्य्ययोरपि शास्त्राविरोधादन्यत्रापि चौर्थ्यादिना स्वत्वापत्तेः । एवं भुजात्कृते राशः स्वत्वबोधनादन्यत्रापि तत्र स्वत्वापत्तेः । न च शास्त्रविरो-


तस्वरूपमि। मनियतत्वात् ।

  1. तस्वरूपमि ।
  2. ननियतत्वात् ।