पृष्ठम्:न्यायलीलावती.djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावती


न्यायलीलावतीप्रकाशः

इत्यनेन स्थावरे स्त्रीणां भोग एव स्वत्वं न दानविक्रययोः ।

 अत्रोच्यते । स्वत्वं न यथेष्टविनियोगविषयत्वं स्वं नियुज्यते न तु विनियोगात् स्वं भवति विनियोगात् पूर्वे साधारण्यापत्तेः । विनियोगाविषये स्वेऽप्यस्वत्वापत्तेश्च । किन्तु यद्यतिरेकेण यथेष्टविनियोगासम्भवनिश्चयः शास्त्राविरुद्धतदुपायविषयत्वरूपं यथेष्टविनियोगयोग्यत्वं स्वत्वम् । तदुपायानां क्रयप्रतिग्रहादीनां क्रियात्वेनास्थिरत्वेऽपि तद्विषयत्वं स्थिरमेव । ज्ञाननिवृत्ताविव तद्विषयत्वम् । अत एव

न्यायलीलावती प्रकाशविवृतिः

धस्य परस्वं नाददीतेत्यादि प्रतियोगिप्रसिघ्घधीनग्रहस्य स्वत्वनिरूप्यत्वादात्माश्रय इति वाच्यम्, शास्त्र विरोधस्य न कलञ्जमित्यादावेवप्रसिद्धेः । 'सप्त वित्तागमा धर्म्म्या' इत्यनने धर्म्म्यत्वस्य शा ( स्त्रा ? ) निषिद्धत्वाञ्चेति वदन्ति । वस्तुतः क्रयादिध्वंस एव स्वत्वं क्रयादीनां च शास्त्राविरुद्धविनियोगोपायत्वमेवानुगमकं क्रयादिसमानकालीनविरोध्युपायप्रतियोगिकयावदनादि संसर्गाभावसाहित्यं च विशेषणम् । एवं च क्रयजन्यत्वव्यवहारस्तत्रोपपद्यते । विक्रयनाश्यत्वव्यवहारस्तु पूर्व [१] एवोपपाद्यः । न ( च १ ) क्रयकाले स्वत्वामापत्तिः सम्प्रदानस्वीकारविशिष्टेस्यैव दात्रिच्छाविशेषस्य तवापि स्वत्वतया यथा न प्रथमक्षणे स्वत्वं तथा द्वितीयक्षणेऽपीति सम्भ वात् । अतिरिक्तस्वत्ववादिमतेऽपि क्रयोत्पत्तिकाले[२] असम्भवाच्च ।

 केचित्तु क्रयकालेऽपि स्वत्वमित्यभिसन्धिना शास्त्राविरुद्धविनियोगप्रयोजकीभूतो पायप्रागभावविरोधिमत्त्वं स्वत्वम् । विरोधी च क्रयादिस्तद्ध्वंसः कयादिजन्यव्यवहारक्ष्चैकदेशान्वयादेवत्याहुः । न च क्रीत्या विक्रीते तदापत्तिः विरोध्युपायान्तरानन्तरितत्वस्य [३] विशेषणत्वात् । न चार्जितेषु प्रमीतस्य स्वत्वापत्तिस्तत्र मरणस्यैव पुत्रादिविनियोगप्रयोजकस्य व्यवधायकत्वादिति दिक् ।

 ज्ञाननिवृत्ताविति । यथातीतस्यैव ज्ञानस्य व्यवहारप्रयोजकत्वमेवमुक्तक्रमेणातीतस्य [४] क्रयादेर्विनियोगप्रयोजकत्वमित्यर्थः । भवत्वेषं तथाप्यस्मम्मसेऽपि नाननुगमो विनियोगोपायत्वैनेवानुगमादि.


  1. ‘पूर्ववदेवोप' ।
  2. ले च तदसम्भ ।
  3. 'विरोध्युपायानन्तरितत्वस्य' ।
  4. तस्यैवै क्र ।