पृष्ठम्:न्यायलीलावती.djvu/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

न तद्वत्पदार्थान्तरत्वम् । न च क्रयादीनामननुगमाद्योग्यताननुगमो लक्षणदोषः, स्वत्वस्य पदार्थान्तरत्वेऽपि तद्धेतूनां क्रयादीनामननुगमात् तत्कारणताभङ्गापत्तेः । अथ तृणारणिमणिन्यायेन कारणताग्रहः । एवं तर्हि क्रयादीनां प्रत्येकमेवोपायत्वे गृहीते उपायविषयत्वं योग्यतालक्षणमक्षुण्णमेव । अवश्यं हि क्रयादीनां स्वत्वोपाय त्वेन प्रसिद्धाना मेकरूपकार्यं प्रति मिथोव्यभिचारिणां कारणतानिर्वाहकानुगमार्थं शास्त्राविरुद्धत्वाद्ये कमनुगमकं वक्तव्यम् । ननु यदि क्रयाघुपायापगमेऽपि तद्विषयताऽस्ति तदा यत् क्रीत्वा विक्रीतं गृहीत्वा दत्तं वा तत्रापि तद्विषयताऽस्त्येवेति तत्र विक्रेत्रादिस्वत्वमपि व्यव हियेत । न । न झुपायविषयत्वमात्रं योग्यता किन्तु स्वव्यतिरेक प्रयुक्तयथेष्टविनियोगासम्भवनिश्चय सहकृतम् । तत्र च न पूर्वक्रयव्यतिरेकप्रयुक्तो विनियोगासम्भवः किन्तु विक्रयदत्तत्वप्रयुक्त एव । पदार्थान्तरत्वपक्षेऽपि दूषणसाम्यात् । सा च योग्यता क्रयाज्जायते विक्रयान्निवर्तते । एका योग्यता नश्यत्यन्या त्वन्यस्योत्पद्यते । तत्किं योग्यता नाना । कः संशयः । तत्तव्द्यतिरेकप्रयुक्तत्वविशेषित विनियोगासभवनिश्चयभेदेन योग्यताभेदात् । प्रतियोगितावच्छेदक विशेषिताभावभेदवत् । अत एव चौरादिना गृहीते पूर्वस्वामिनः स्वत्वं वर्त्तत एव । न हि पूर्वागमव्यतिरेक प्रयुक्तस्तत्र विनियोगासग्भवः किं तु

न्यायलीलावतीप्रकाशविवृतिः

त्याह - एवमिति । वस्तुतोऽवान्तरवैचित्र्येऽपि यद्विशेषयोरित्यादिन्यायेनासति बाधके सामान्यसामग्री त्वयाऽपि वाच्यैवेत्यनुगम उभयसाधारण एवेत्याह – अवश्यं हीति । शास्त्रेति । शास्त्राविरुद्ध विनियोगप्रयोजकत्वमित्यर्थः, यथाश्रुते ब्राह्मणकृष्यादावव्याप्तेः । अत एवेति । यत एव यावदनादिसंसर्गाभावघटितं स्वत्वमित्यर्थः । न हि पूर्वागमति । येन पूर्वस्वामिनः शास्त्राविरुद्धविनियोगोपायविषयता पूर्वनिरुक्ता चौरगृहीते न स्यादिति शेषः [१] । किं त्विति । तच्च शास्त्रविरुद्धमेवेति शास्त्राविरोधिविरोध्यनन्तरितत्वमपि पूर्वोपाय इति भावः । तथा च विक्रीत [२] वैषम्यमिति बोध्यम् । यत्तु तत्र चौरस्यैष स्वत्वमन्यथा


  1. ति भावः ।
  2. 'विक्रीतेति द्वितीयंपुस्तके नास्ति ।