नन्वेवमपि न्यून[१]त्वम् । तथाहि क्षित्यादिकं द्रव्यत्वाद्
न्यायलीलावतीकण्ठाभरणम्
एवमपीति । अतिरिक्तपदार्थनिषेधेऽपि न्यूनत्वं विभागस्य दुष्टत्वमित्यर्थः । तथा च पृथिव्यादिनवक सङ्ग्राहकैकरूपाभावे न्यूनत्वात् दुष्टत्वं द्रव्यगुणकर्मणां मिथोभेदकाभावे चाधिकत्वात् दुष्टत्वमिति भावः । क्षित्यादिकमिति | क्षित्यादिनवकं गुणादिपञ्चभ्यो द्रव्यत्वात्
न्यायलीलावती प्रकाशः
चौरादिगृहीतत्वप्रयुक्तः, औपादानिकस्वत्वविषयेऽपि तथैव । आरण्यककुशादिष्वप्युपादानव्यतिरेकप्रयुक्त एव हि विनियोगासम्भ वनिश्चयः । तेनौपादानिकं स्वस्वमुच्यते । इति संक्षेपः ।
"विरोधात" व्याहतत्वादित्यर्थ: [२] । तथा हीति । द्रव्यादिन्निके मिथोव्यावर्त्तकधर्माभावान्न मिथोभेद इति न पदार्थषट्कविभागः लमीचीनः । किं च पृथिव्यादिरूपाघुपग्राहक द्रव्यत्वगुणत्वाभावेन तेषां प्रत्येकं वक्तव्यतायां द्रव्यादिपदस्यैकैकपृथिव्यादिपरत्वे न्यून
न्यायलीलावती प्रकाशविवृतिः
द्रव्यमस्वामिविक्रीतं पूर्वस्वामी समाप्नुयादित्यत्र पूर्वपदवैयर्थ्यापत्तिरत एव च हिरण्यादौ विनियोगो निःशङ्कमन्यथाचौरग्रहणमूललकत्वशङ्काया निःशङ्कप्रवृत्त्यनुपपत्तिरिति मतम् । तन्न, तत्रोत्तरस्वामिपदस्य यथोक्तविनियोक्तृमात्रपरतया पूर्वपदस्य सार्थकत्वान्निःशङ्कप्रवृत्त्यनुरोधेन च चौरादिग्रहणा [३] मूलकत्वनिश्चयाभावसहकृतस्य क्रयादेर्विनियोगोपायत्वस्वीकारादन्यथा चोरस्वत्वनिश्चितवाक्येऽस्वामिपदानन्वयापत्तेरविगानेन शिष्टानां चौरगृहीतक्रियापत्तेश्चेति दिक् ।
हेत्वाभासलक्षणो विरोधो नात्रेत्यत आह - व्याहतत्वादिति । न्यूनतेति [४]। मूले विभजनीयस्य विभागस्य चेत्यर्थ इति प्रथमं विभजनीयस्य न्यूनतामाह-द्रव्यादित्रिक इति । विभागस्य न्यूनतामाह - किं चे-