पृष्ठम्:न्यायलीलावती.djvu/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


गुणवत्त्वाद्वा भिद्यते । नाघः । तदसिद्धेः । अनुगतमतेः सन्दिग्धत्वात् । स्वातन्त्यूधीरिय [१] मिति चेन्न, शब्देऽपि तत्सत्त्वात् । समवेतत्वेनैव [२] चावयविनामवसायात् । नापि गुणवत्त्चात् । सङ्खयादिसाधारण्यात् रूपादिषु गुणत्वस्यैकस्यासिद्धेः । भिन्न-

न्यायलीलावतीकण्ठाभरणम्

गुणवत्त्वाद्वा भिद्यते इत्यर्थः । तदसिद्धेरिति । द्रव्यत्वजातेरसिद्धेरित्यर्थः। ननु द्रव्याकारानुगतमतिरेव द्रव्यत्वे प्रमाणमित्यत आह - अनुगतेति । न हि लौकिकपरीक्षक साधारणी द्रव्याकारानुगत मतिराकाशादावित्यर्थः । परविप्रतिपत्त्या वा सन्देहस्तत्रेति वार्थः । ननु स्वतन्त्र मिदमित्यनेनाकारेण या धीः सैव द्रव्याकारानुगतधीरिति शङ्कते--स्वातन्त्र्येति । स्वाश्रयानुपरक्तधीः स्वातन्त्र्यधी: शब्दसाधारणी न द्रव्यत्वव्यवस्थापिकेत्याह - शब्देऽपीति । उक्तस्वातन्त्र्यधीर्द्रव्ये नास्त्येवेत्याह – समवेतत्वेनेति । द्वितीयं भेदकं निराकरोति-नापीति । संख्यादीति। संख्यादिना गुणेन गुणकर्म्मणोरपि गुणवत्त्वमित्यर्थः । भवति हि चतुर्विंशतिर्गुणाः पञ्च कमणीति धीरिति भावः । यदि रूपादिचतु-

न्यायलीलावती प्रकाशः

त्वम्, पृथिव्यादीनां चैकत्वे व्याघात इत्यर्थः । 'अनुगतमति'र्द्रव्यमिति प्रत्यक्षमित्यर्थः । सन्दिग्धत्वाद् वादिविप्रतिपत्तेरिति शेषः । 'इयं द्रव्येष्वनुगतमतिरित्यर्थः । स्वातन्त्र्यधीर्थद्याश्रयत्वबुद्धिस्तदा गुणादिसाधारण्यम् । अथाश्रयामानेऽपि भासमानत्वं तदा शब्दगन्धादिसाधारण्यामित्याह – शब्देऽपीति । अथानाश्रितत्वबुद्धिः सा तदा वैपरीत्यमेवेत्याह—समवेतत्वेनैवेति । संख्यादीति । रूपादौ संख्यादेः संख्यादौ च

न्यायलीलावतीप्रकाशविवृतिः

ति । ननु पृथिव्याद्येकमेवेति न तत्रोपसंग्राहकापेक्षेत्यत आह - पृथिव्यादीनां चेति । व्याघातो नवत्वव्याघातः । प्रत्यक्षसिद्धवैधर्म्यव्याघातो वा । अथाश्रयेति । एतादृशवस्तुविषयक [३] मित्यर्थोऽन्यथा बुद्धिविकल्पा.


  1. स्वातन्त्यूधीविषयत्वरूपमेव हि द्रव्यत्वं भेदकमभिमतमित्यर्थः ।
  2. इदं च समवाय प्रत्यक्षतावादिमतेन । इतरथा वृत्तिमत्त्वेनेत्यर्थ ।
  3. व्यकत्वभि० ।