पृष्ठम्:न्यायलीलावती.djvu/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
न्यायलीलावती


रूपस्य भागासिद्धेः । आदित्वस्यैव प्रतिक्षेपात् । अन्यतमत्वस्य


न्यायलीलावतीकण्ठाभरणम्

र्विशतौ गुणत्वमेकमनुगतं स्यात्तदा क्षित्यादिनवकभेदकं गुणवत्त्वं भवेत्तदेव तु नास्तीत्याह - रूपादिष्विति । ननु गुणत्वासिद्धौ गुणवत्त्वमनुगमकं माऽस्तु रूपवत्वमेव भेदकमस्त्वित्यत आह - भिन्नरूपस्येति । आकाशादीनामपि पक्षत्वे तत्र रूपवत्तादेरसिद्धेरित्यर्थ: । ननु रूपवत्ता दिकं भागासिद्धं न तु रूपादिमत्त्वमपि कस्यचित् द्रव्यस्य किंचिद्गुणसत्वादित्यत आह - आदित्वस्येति । आदिपदं प्रकारवाचि प्रकारश्च गुणत्वमेव स्यात्, तच्च गुणत्वस्यैवासिद्धेरिति पूर्वोक्तेनैव प्रतिक्षिप्तमित्यर्थः । ननु रूपवत्वरसवत्वाद्यन्यतमत्वमेव द्रव्यभेदकं स्यादत आह - अन्यतमत्वस्येति । आदिपदमनिर्द्धारितमेकमाह । तथा च रू

न्यायलीलावतीप्रकाशः

पृथक्कादेः सत्त्वेन गुणवत्वस्य साधारण्याद्विरुद्धत्वादित्यर्थः । किं च गुणवत्वं गुणत्वाथ्र्यवत्वं वा रूपवत्त्वमिति प्रत्येकं वा रूपादिमत्त्वं वा रूपाद्यन्यतमवत्वं वा । आद्ये रूपादिष्विति । रूपादौ गुणाकारानुगतप्रतीत्यभावादित्यर्थः । द्वितीये भिन्नति । तृतीये आदित्वस्येति । प्रकारवाचिन आदिशब्दस्यानुगत धर्माभावेनाप्रवृत्तेः प्रत्येकगुण परत्वे तस्य भागासिद्धेः समुदायपरत्वे चासिद्धेरित्यर्थः । चतुर्थे अन्यतमेति । अन्यतमत्वं हि समभिव्याहृतपदार्थमध्ये किंचिद्वत्तित्वे सति किंचिदवृत्तिधर्मवत्त्वम् । तथा च भागासिद्धिः पक्षीकृतेषु नवसु

न्यायलीलावतीप्रकाशविवृतिः

सङ्गत्यापत्तेः सपक्षघटितं साधारण्यं केवलव्यतिरोकेणि न सम्भवतीत्यत आह - विरुद्धत्वादिति | साध्यानवगतसहचारः साध्याभावसहचारी विरुद्ध इति मतमाश्रित्येदमुक्तम् । किं चिदिति । सत्यन्तं स्वरूपनिर्वचनपरम् । यद्यपि एतावता तादृशधर्म एवान्यतमत्वं तथांपि तादृशो धर्मो यत्र [१] तत्त्वं तादृशधर्म्मवत्मेत्त्वाभिमतमत एव क्वचित्पाठोऽपि तथेति भावः । तादृशो धर्मो रूपत्वादिः संयोगत्वादिर्वा । अन्त्ये व्यर्थविशेषणतैवेति प्रथमे भागांसिद्धिमाह तथा चेति ।


  1. यस्य ।