पृष्ठम्:न्यायलीलावती.djvu/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

पवत्त्वरसवत्त्वादावेव पर्य्यवस्येत, तच्च भागासिद्धमेवेत्यर्थः । नवानां समवायिकारणत्वेनैक्यमाशङ्कय गुणकर्मणारसमवायिकारणत्वे-

न्यायलीलावतीप्रकाशः

तेषामसत्त्वादित्यर्थः । यद्यपि भागासिद्धौ भागान्तरे साधनाभावात् साध्यसिद्ध्यभावस्य दूषकतावीजस्थात्राभावः, भागान्तरे साध्यसाधकस्य जलत्वादेः सत्त्चात्, न वा भागासिद्धिः पृथिव्याद्यन्यान्यत्वस्य [१] विवक्षितत्वात् । तथापि पृथिव्यादिव्यक्तीनां प्रत्येकमुपस्थापयितुमशक्यत्वात् पृथिवीत्वादिना तत्तदुपस्थितिर्वाच्या सा च पृथिवीत्वाद्यसिद्ध्या न सम्भवति । [समवायीति ।[२]] रूपादेः संख्यादिसमवायिकारणत्वे विरुद्धं [३] चेत्यभिसन्धिः [एकत्व इति । (२)]

न्यायलीलावतीप्रकाशविवृतिः

अन्यतमत्वमन्यान्यत्वं रूपादिनिष्ठमित्यपि व्यर्थविशेषणग्रस्तमेवेति नाशङ्कितम् । ननु नोक्त्तं दूषकताबीजमपि तूद्देश्यतल्लिङ्गकनवपक्षकानुमितिप्रतिबन्धकत्वम् । अन्यथा हेत्वन्तरस्य साध्यसाधकस्य विद्यमानत्वेनास्यादोषत्वे व्यभिचारादेरप्यदोषत्वमित्यरुचेराह - न. वेति | स्वातत्र्येणैवायं हेतुरितरभेदसाघकत्वेनाशङ्कितो न तु गुणवत्त्वविकल्पशेषत्वे । तथा सति रूपाद्यन्यान्यतमवत्वस्य शङ्कितुमुचितत्वादिति ध्येयम् । ननु पृथिव्याद्यन्यान्यत्वमेव साध्यमिति साध्याविशेषः । न च पृथिवीत्वाद्यन्यान्यधर्मवत्वं हेतुरिति वाच्यम्, तथा ( सति ? ) "पृथिव्यादिव्यक्तीना"मित्यग्रिमग्रन्थालग्नकतापत्तेरिति । मैवम् । गुणादिप्रतियोगिकाम्योन्याभावस्य साध्यत्वात् । अन्ये तु 'विवक्षितत्वा'दिति साध्यतावच्छेदकत्वेन विवक्षितत्वादिति नानुपपत्तिरिति वदन्ति ।

 रूपादेरिति । रूपादेः संख्यागुणयोगात् द्रव्यत्वावश्यकत्वे


  1. 'रूपाद्यन्यान्यत्वस्य' वि. ।
  2. एतत्प्रतीकद्वयानुसारी पाठ आदर्शमूले न दृश्यते । परन्त्यत्न "समवायिकारणत्वेनैकत्वे---- समवासिकारणत्वलक्षणैकरूपेण विभजने" इतिदीधितिम्रन्थदर्शनाश्च तत्पाठस्त्रुटित इत्यनुमीयते
  3. विरुद्धं चात्र व्यभिचारित्वम्, तथा च द्रव्यं भियत्ते, समवायिकारणत्वादित्यत्र रूपादौ व्यभिचार इति भावः ।