पृष्ठम्:न्यायलीलावती.djvu/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
न्यायलीलावती


भागासिद्धेः। [१]असमवायिकारणत्वेन [२] गुणकर्मणोररूप्येकत्वे षडेवेति नियमानुपपत्तेः[३] । कार्याश्रयत्वं यज्जाति पुरस्कारातत्त-


न्यायलीलावतीकण्ठाभरणम्

नैक्यमापाद्य विभागव्याघातमाह - समवायीति । [४] ननु कार्य्याश्रयत्वमाकस्मिकं स्यात् असत्येकस्मिन्नवच्छेदक इति यत्तदवच्छेदकं तद्द्रव्यत्वमित्याशङ्कते— कार्येति । अवच्छेदकं विनापि कार्य्याश्रयत्वं स्यात् अन्यथाऽकार्य्याश्रयत्वं गुणकर्म्मणोरेका जातिरवच्छिन्द्यात् । एवं

न्यायलीलावतीप्रकाशः

गुणादिव्यावर्त्तकैकजातिमत्त्व इत्यर्थः । असमवायिकारणत्वेनेति । एतच्चासमजायिकारणत्वेनैक्येऽपि गुणत्वकर्मत्वाभ्यामवान्तरभेदसम्भवान्न पदार्थत्वसाक्षायाप्योपाव्धीनामयं विभाग इत्यभिप्रेत्योक्तम् । षडेवेति । यद्यपि षडेवेतिनियमस्याधिकसंख्याव्यवच्छेदकत्वात् न्यूनत्वेऽपि नानुपपत्तिः, तथापि पडाश्रयो विभाग: पदत्वाभावेनाक्ष्रयासिद्धः, अन्त्यावयविरूपादौ विनश्यदवस्थकर्मणि चासमवायिकारणत्वाभावात् । तेषामाधिक्येऽधिकसंख्याव्यवच्छेदोऽप्यनुपपन्न इंत्यप्याहुः ।

 कार्याश्रयत्वमिति । आनन्त्यव्यभिचाराभ्यां व्यक्तौ तदसम्भवा

न्यायलीलावतीप्रकाशविवृतिः

पृथिव्याद्यन्यान्यत्वमावश्यकमिति रूपादिभिन्नत्वसाध्यासत्त्वे व्यभिचारलक्षणविरोधदित्यर्थः । केचित् रूपाद्यन्यतमत्वमेच हेतुरस्त्वित्याशङ्कायामेवेयं फक्किका । तथाच रूपादावण्युक्तसाध्यासत्त्वादुक्त हेतुसत्त्वाञ्च व्यभिचार इत्यर्थ इत्याहु: । क्वचिन्तु समवायिकारणत्वेनेति मूलधारणानन्तरमियं फक्किकेति क्रमस्तथा सति सुगमैव । तथापीति । एवकारस्याधिकव्यवच्छेद परत्वेऽपि षडित्यस्यानु पपत्ति [५] रेवेति भावः । 'इत्यपी'त्यरुचौ । तद्वीजं तु तत्रापि स्वरूप-


  1. प्रकाशदीधिति घृतप्रती कानुसारेणात्र कश्चित् पाठस्त्रुटित इत्यनुमीयते ।
  2. असमायिकारणवृत्ति सत्तान्यजातिम स्वमित्यर्थः । तेनात्मविशेषगुणाना नासंग्रह ।
  3. पदार्थाना पञ्चत्वेन षद्त्वायोगात् ।
  4. एतत्प्रतीकानुसारी पाठ आदर्शमूले न दृश्यते ।
  5. पत्तेरिति भा० ।