पृष्ठम्:न्यायलीलावती.djvu/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


द्द्रव्यत्वं भेदकमिति चेन्न, तां विनापि [१] तदुपपत्तेः । अकार्यजात्याश्रयत्ववत्कारणत्वमसति बाधके सामान्य एव पर्यवस्यतीति चेन्न, स्पर्शसमवायिकारणतया क्षित्यादिषु प्रतिनियतसामा- न्यापत्तेः । नापि गुणत्वं, तस्योपदेशं विनाऽमतीतेः । उपदेश-

न्यायलीलावतीकण्ठाभरणम्

द्रव्यादित्रयाणां जात्याश्रयत्वं जात्यन्तरेणावच्छिद्ये तेत्याह - तद्विनेति । ननु यथाङ्कुरकारणत्वं वीजत्वं तथा नवानां समवायिकारणत्वमपि द्रव्यत्वं स्यादित्याह- कारणत्वमिति । शब्दकारणत्वं च नाकाशत्वं जातिर्बाधकादित्यर्थः । एवं सति स्पर्शसमवायिकारणत्वं चतुर्षु एका जातिः स्यादित्याह - स्पर्शेति । नवानां भेदकं निराकृत्य चतुर्विशतेर्भेदकं निराचष्टे – नापीति । तस्येति । न हि गुणाकारानुगता मति. न्यायलीलावतीप्रकाशः दित्यर्थः । अकार्येति । आश्रयपदेन प्रत्येकमन्वयात् अकार्याक्ष्र यत्ववत् जात्याश्रयत्ववदित्यर्थः । ननु कार्यसमवायिकारणतावच्छेदकतया नवस्वेको धर्मः, स च बाधकाभावाज्जाति, आनन्त्यव्यभिचाराभ्यां व्यक्तौ तद्ग्रहाशक्यत्वादित्याह -- कारणत्वमिति । एवं पृथिव्यादिचतुर्षु स्पर्शसमवायिकारणतावच्छेदकत्वेनैका जातिः स्यात् । अथ यदर्थं यत्कल्प्यते तस्यान्यथासिद्धिरेव कल्पनीये बा धिका तदा द्रव्यत्वेऽपि तुल्यमित्याह - स्पर्शेति । ननु माभूद्द्रव्यत्वं गुणादितो भेदकं गुणत्वाद्रव्यादेर्गुणानां भेदसिद्धौ गुणवत्त्वमुपा धिद्रव्याणामितरभेदसाधकं स्यादित्याशङ्कय गुणत्वासिद्धिमाह - नापीति | रूपादिषु गुणाकारानुगता धीर्नास्तीत्युपदेशसहकृतेन्द्रिय-

न्यायलीलावतीप्रकाशविवृतिः

योग्यताऽस्त्येव फलाभावस्तु जनयितव्यस्य समवायिकारणाभावादिति व्यर्थविशेषणत्वादाह - अकार्येति । जातेर कार्यत्वेऽपि गोवृषन्यायेन पृथगुपन्यासः । तत्तत्स्पर्श [२]प्रति पृथिवीत्वादिनैव कारणत्वमिति यदि तदा तत्तट्गुणं प्रत्यपि तुल्यमिति शङ्कोत्तराभ्यामाह - अथेति। गुणत्वखण्डनमर्थान्तरमत आह - नन्विति । पूर्व जात्युपाघिसाधा-


  1. 'तद्विनापि' ।
  2. उद्भूतस्पर्श ।