पृष्ठम्:न्यायलीलावती.djvu/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
न्यायलीलावती


क्ष्च गुणशब्दसङ्केतो, न चासौ व्यक्तिपु शक्यो, व्यभिचारात् । नाप्युपलक्षणान्तरेण । कर्मव्यावृत्तेरशक्यत्वात् । तदन्यत्वस्थानपेक्षितव्यावृत्तिरूपत्वेन रसान्यत्ववदनादेयत्वादिति त्रयाणामेकीभावेन पडेव पदार्था इति चेन्न, कालाकाशादीनां संयोगवि-


न्यायलीलावतीकण्ठाभरणम्

रस्ति रूपादावित्यर्थः । ननूपदेशव्यङ्गयैवाऽस्तु सेत्वत आह-उपदेशश्चेति । यथा गन्धवती पृथिवीत्युपदेशो नियतधर्म्मपुरस्कारेण तथा प्रकृते न नियतो धर्म इत्यर्थः । ननु सामान्यवानगुणा गुण इत्यत्रान्योऽन्याश्रयोऽपि सामान्यवान् स्पर्शरहितो गुण इत्युपदेशः स्यादित्यत आह -कम्मे॑ति । ननु कर्म्मान्यत्वेन विशेपितः स्यादयमत आह - तदन्यत्वस्येति । कर्म्मणो विपक्षत्वनिश्चय एव तदन्यत्वेन विशेषणमुचितम् | भूषणादिमते च कर्म्मणोऽपि गुणत्वेन विशेषणमिदमनुपपन्नं भवेदन्यथा रूपाद्यन्यत्वेनापि विशेषणं सुलमं स्यादित्यव्यवस्थिति रित्याह – अनादेयेति । त्रयाणां द्रव्यगुणकर्म्मणां परस्परव्यावर्त्तकधर्म्माभावेन एकीभावे चत्वार एव पदार्था इति विभागेऽधिकं दोषः । क्षित्यादिनवकरूपादिचतुर्विंशत्युत्क्षेपणादि पञ्चकंषु ग्राहकैकरूपाभावात् न्यूनो विभाग इत्युपसंहरति — इतीति ।

 दोषद्वयपरीहाराय नवानामेकमवच्छेदकं गुणादिभ्यो भेदकं सा-

न्यायलीलावतीप्रकाशः

ग्राह्यं तदू रत्नत्वव्याप्यजातिवदिति वाच्यम्, तत्राह-उपदेशश्चेति । ननु जातिमात्र समवायित्वादिनाऽनुगतधर्मेण सङ्केतग्रहः स्यादित्यतआह - नापीति । न च कर्मान्यत्वेन तद्विशेषणीयम्, कर्मणो हि वि. पक्षत्वनिश्चय एव तव्घावृत्त्यर्थं विशेषणमुचितम् । न च कर्मगुणत्ववादिनस्तथा । यदि च स्वानपेक्षितत्वमात्रेण तदन्यत्वं विशेषणं तदा परेण रसान्यत्वेनापि तद्विशेष्यं स्यादित्याह- तदन्यत्वस्येति ।

न्यायलीलावतीप्रकाशविवृतिः

रण्येनैवानुगतगुणत्वमात्रखण्डनमिदानी तु जातिरूपगुणत्वखण्डनमित्यपौनयरूत्तयम् । आदिपदेनैव दिशो लांभे बहुवचनमयुक्तं विभा-