पृष्ठम्:न्यायलीलावती.djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

धयति — कालेति । संयोगजनकत्वेन विभागजनकत्वेन चेत्यर्थः । तथा कालाकाशादयः सत्तेतरजातिमन्तः संयोगजनकत्वात् विभागजनकत्वाद्वा कर्म्मवादति विवक्षितम्। संयोगविभागाभ्यांच न व्यभिचारस्तत्रापि साध्यसत्त्वात् । द्रव्यत्वव्याप्यजात्याऽन्यथासिद्धिर्माभूदिति कालाघुपादानं तेषां तज्जात्यभावात् । न च त्रितयमात्रनिष्ठा सा स्यादिति वाच्यम्, पृथिव्यादिषट्त्वं कालादिनिष्ठसत्ताव्याप्यजाति-

न्यायलीलावतीप्रकाशः

कालाकाशर्दानामिति । कालादित्रयं सत्ताव्याप्यजातिमत् संयोगजनकत्वात् कर्म्मवत् । न च त्रितयमात्रवृत्तिजातिसिद्धावर्थान्तरं पृथिव्यादिषट्कं कालवृत्तिसत्ताव्याप्यजातिमत् संयोगजनकत्वादाकाशवदिति पृथिव्यादिवृत्तित्व सिद्धेः । ननु विभुत्वमत्रोपाधिः । न च काले सा जातिर्न कालमात्रवृत्तिरेक व्यक्ति कसामान्याभावात् तदन्यत्र वर्त्तमाना मूर्त्तेऽपि सम्भाव्यत इति साध्याव्यापकत्वमिति वाच्यम्, तथापि सन्दिग्धोपाधेरपरीहारात् । मैवम् । विभुत्वमनवच्छिन्नपरिमाणवत्वं तत्रानवच्छिन्नपदं पक्षमात्रव्यावर्त्तकमिति

न्यायलीलावती प्रकाशविवृतिः

गपद्वैयर्थ्य चेत्यन्यथा प्रयोगमाह - कालादीति । व्याप्यपदं भिन्नपरम् । यद्यपि कालाकाशयोरेका परा चात्मादिकमादाय दिशीत्यर्थान्तरं तथापि लाघवादेकजातिसिद्धिरिति भावः । पृथिव्यादीति । पृथिवी त्वादिनाऽर्थान्तरं माभूदिति कालवृत्तीति । न चैवमपि सप्तवृत्तिजात्याइर्थान्तरम्, जातिसङ्करभयेन तद्प्रसङ्गात् । अत एव पूर्वानुमान. मपि साध्यप्रसिद्ध्यर्थमुपयोगि । क्वचित्तु कालवृत्तिपदं नास्ति तत्र च कालादित्रयवृत्तिजातेः पूर्वानुमानेन सिद्धौ लाघवादेकामेव तां विषयीकरोतीयमनुमितिर्न तु पृथिवीत्वादिकं गौरवात् । नापि षड्वृत्तिजातिमक्लप्तत्वादित्याशयः । सत्तयाऽर्थान्तरवारणाय व्याप्यपदम् । तच्च भिन्नपरम् । गुणवत्वादिनाऽर्थान्तरवारणाय जातिपदम् । संयोगेति । [१] समवायित्वादित्यर्थो विभागध्वंसे व्यभिचारात् । समवायिकारणत्वविवक्षायां च कारण पवैयर्थ्यादिति भावः । विभुत्वमिति । व्यभिचारोन्नायकश्चायमुपाधिः । सत्प्रतिपक्षतायां


  1. संयोगसमवायित्वा० ।