पृष्ठम्:न्यायलीलावती.djvu/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

मत् समवायिकारणत्वात् आकाशवदिति तत्रापि तत्सिद्धेः समवायिकारणतावच्छेद कजात्यनङ्गीकारे नियामकमन्तरेण तदाकस्मिकं स्यादिति विपक्षवाधकं चात्र द्रष्टव्यम् । पूर्वोक्तां प्रतिवन्दीं निराचष्टे-

न्यायलीलावतीप्रकाशः

पक्षेतरत्वात् तथाप्यर्थान्तरत्वम् । पृथिव्यादिष्वेका जातिरस्ति न वेति विवादो न तु कालादित्रयमेकजातिमन्न वेति । द्रव्यत्वापरजात्यनुमितिश्चैवं स्यात् । किं च संयोगजनकत्वं यदि तत्समवायिकारणत्वं तदा दृष्टान्तासिद्धिः तदसमवायिकारणत्वं चापक्षधर्मः | तन्निमित्तकारणत्वं च दृष्टान्ते नास्ति, अभावे अनैकान्तिकत्वं च ।

 अत्राहुः । द्रव्यमिति प्रत्यक्षं तावत्सर्वसिद्धम् । तच्च यथा पृथिव्यां तथा जलतेजसोरपीत्युभयसाधारणं निमित्तं सिद्ध्यति । तञ्च न पृथिवीत्वादिकं एकदेशवृत्तित्वात् । न गुरुत्वादिकं तदशानेऽपि धूमादौ द्रव्यमितिप्रत्यक्षात् । तच्च जातिः, तथात्वे बाधकामावात् । इत्यतीन्द्रियेऽपि वाय्वाकाशादौ संयोगजनक त्वात्तदनुमेयम् । न चाप्रयोजकत्वं संयोगमात्रं कार्यमात्रमेव वा प्रति समवायिकारणं किं चिद्वाच्यम् । अन्यथा कारणान्तरम-

न्यायलीलावतीप्रकाशविवृतिः

व्यतिरेके भागासिद्धेरित्यवधेयम् । पक्षेतरत्वादिति । पक्षमात्रव्यावर्त्तकविशेषणवत्त्वादित्यर्थः । न चैवमप्यतीन्द्रियत्वादिकमुपाधिः स्यादेवेति वाच्यम्, संयोगसमवायिकारणतावच्छेदकत्वेन नवस्वेकजातिसिद्धौ विपक्षवाधकेन हेतोः साध्यव्याप्यतयोपाधेः साध्याव्यापकत्वादिति भावः । कालादित्रयमित्यत्र दोषमाशङ्कते- तथापीति । अर्थान्तरत्वमप्राप्तकालत्वम् । प्रकृतानुकूलतया नार्थान्तरमत आह-- द्रव्यत्वापरेति । तादृशजातौ विपक्षबाधकाभावान्न तत्सिद्धिरित्यरुचेराह - किं चेति । कारणत्वसामान्यमेव हेतुरित्यरुचेराह - अभाव इति । ( संयो ? ) ग (प्राग ? ) भावे संयोगध्वंसे चेत्यर्थः । एवं चोपजीव्यानुमानखण्डने षट्पक्षकानुमानमध्यर्थतः खण्डितमिति भावः । संयोगजनकत्वात् संयोगसमवायित्वादित्यर्थः । कार्यमात्रमिति । यद्यपि नवपक्षकानुमानादप्युक्तहेतुना लाघवादेका जातिरेव सिद्ध्यति उद्देश्यप्रतीत्यसिघ्घ च नांशतः सिद्धसाधनं तथापि सम्भवप्राचु