पृष्ठम्:न्यायलीलावती.djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


भागजनकत्वेन कर्मवत्सत्तेतरजातिमत्त्वसिद्धेः । पृथिव्यादौ तु स्पर्शसमवायिकारणत्वनिर्वाहकजातिस्वीकारे जातिसङ्करप्रसङ्गो बाधकः । न च कर्मत्वमसिद्धम् । चलतीत्यनुगताकारवेघ


न्यायलीलावतीकण्ठाभरणम्

पृथिव्यादाविति । स्पर्शसमवायिकारणतावच्छेदिका जातिर्जलपरमाणौ नास्ति जलत्वश्च तेजसि नास्ति जलावयविनि द्वयमध्यस्तीति साङ्कर्य्यमित्यर्थः । वस्तुतः स्पर्शत्वं नित्यानित्यवृत्तितया कार्य्यतावच्छेदकं न भवति । कार्य्यस्पर्शमाश्रित्येदमुक्तम् । ननु कर्म्म दृष्टान्तीकृतं न च तत्र सत्तेतरजातिमत्त्वं साध्यमिति साध्यवैकल्यमत आह-न चेति । चलतीत्यनुगतमतिः सर्व्वसाक्षिणीत्यर्थः । अनुगतधीवेद्यत्वं जातित्वव्यापकं तन्निवृत्तौ द्रव्यत्वं जातिर्न स्यादित्याशङ्कय रत्नत्वे व्यभिचारान्नेयं

न्यायलीलावतीप्रकाशः

पि न स्यात्, तद्गर्मत्वात्तन्निमित्तासमवायिकारणयोः । तच्चानुगतधर्मावच्छेद्यमन्यथा व्यभिचारादकारणत्वापत्तेः । स चानुगत औत्सर्गिको जातिरूप इति विपक्षे बाधकात् स्पर्शसमवायिकारणत्वावच्छेदकत्वेनापादितां जातिं दूषयति- पृथिव्या दाविति । जलत्वं विना सा जाति: पृथिव्यादौ तां विना जलत्वं परमाणावित्येकत्र जलावयविनि परस्परात्यन्ताभावसमा (ना?) धिकरणजात्योः सङ्करापत्तिरित्यर्थः । न च जलपरमाणावपि सा जातिरस्त्येव समानाधिकरणस्पर्शस्य च प्रतिबन्धकत्वान्न तत्र स्पर्शोत्पत्तिः, स्वरुपयोग्ये च कार्यानवश्यम्भा

न्यायलीलावतीप्रकाशविवृतिः

र्येणेदमुक्तम् । कार्याकार्येत्यत्र कार्यपदं सम्पातायातम् । ननु नित्यस्येत्यादिव्यातेरङ्गीकारे जलत्वमपि न परमाणौ, अनित्यस्नेहसमवायिकारणतावच्छेदकतयैव तत्सिद्धेः। व्याप्त्यनङ्गीकारे [१] स्पर्शसमवायिकारणतावच्छेदकजातिरपीत्युभयथापि न साङ्कर्यम् । न च नानाजातीयद्रव्यवृत्ति [२]गुणत्वावान्तरजातेश द्रव्यवृत्तिजातिनियामकत्वमन्यथा वेगसमवायिकारण [ तावच्छेदक ? ] तयापि पञ्चस्वेक-


  1. तदनङ्गीकारे ।
  2. गुणवृत्तीत्यधिक: पाठो द्वितीयपुस्तके ।