पृष्ठम्:न्यायलीलावती.djvu/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
न्यायलीलावती


न्यायलीलावतीप्रकाशः

वादिति वाच्यम्, नित्यस्य स्वरूपयोग्यस्य सहकारियोग्यतावश्यम्भावात् । एतश्च स्पर्शत्वस्य कार्य्याकार्य्यवृत्तित्वेन कार्यतानवच्छेदकत्वेऽप्यनित्यस्पर्शत्वस्य तथात्वमभ्युपेत्योक्तम् । चलतीतिप्र (त्य ?) - क्षसिद्धं कर्मत्वमित्यर्थः । न च संयोगविभागाश्रयत्वमात्रालम्बनेयं

न्यायलीलावतीप्रकाशविवृतिः

जास्यापत्तेरिति वाच्यम्, संयोगसमवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धिविरोधात् । न च कतिपयद्रव्यगुणवृत्तिजातःवयं नियमोऽप्रयोजकत्वात् । वेगप्रयोजकजातेरपि पूर्वपक्षिणापादनीयत्वेनोक्त्तस्याबाधकत्वात् । मैवम् जलसमवायिकारणतावच्छेदकत्वेनैव जलत्वसिद्धावुक्तव्याप्तिस्वीकारे जातिसङ्करात् । न चैवमपि वेगप्रयोजकतया पञ्चस्चेकजातौ न बाधकमिति वाच्यम्, फलोपहितमात्रवृत्तिधर्मस्यैव गुणत्वसाक्षायाप्यजात्य वच्छिन्नकार्यताप्रतियोगिकसमवायिकारणतावच्छेदकत्व मितिनियमादुत्पन्नविनष्टे च वेगानुत्पत्त्या पञ्चसाधारणजात्यसिद्धेः । संस्कारत्वं च ( न ? ) जातिरिति वेगत्वंस्य साक्षाद्व्याप्यत्वात् । दैशिकपरत्व प्रयोजकतयाऽपि नोक्तजातिसिद्धिरुभय परत्वसाधारणैकजात्यभावे तस्यापि साक्षाद्व्याव्यत्वात् क्षणद्वयावस्थायिनि असमवायिकारणविलम्बेन परत्वानुपपत्तेश्वोक्तनियमस्यैव निरोधात् [१] । यदि चोक्तनियमेऽप्रयोजकत्वं तदाऽस्तु पञ्चसाधारणी जातिः कर्मसमवायिकारणतावच्छेदकतयाऽपि तस्या आवश्यकत्वात् ।

 केचिन्तु जलशब्दशक्यतावच्छेदकत्वेन जलत्वसिद्धौ स्पर्शप्रयोजकजातौ सङ्कर इति वदन्ति । मिश्रास्तु । द्रव्यानुगतबुद्धेरेव द्रव्यत्वं सिद्धयति उपाध्यननुसन्धानेऽपि तथाप्रतीतेः । स्पर्शवत्वप्रतीतिस्तु नोपाध्यननुसन्धाने येन तयाऽपि जातिराक्षिप्येत इति वदन्ति । तत्रेदं चिन्त्यम् । एवमपि कारणतावच्छेदकतया चतुःसाधारणजातौ बाधकानभिधाने उक्तबाधकानुसरणे आकरोक्त्तसाधकमेव किमिति परित्यक्तमिति ।


  1. व विरोधात् ।