पृष्ठम्:न्यायलीलावती.djvu/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
म्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


त्वात् । न चानुगतबुद्धिगम्या जातिस्तदपायाद् व्यावर्तते । गृहीतसमयस्य रत्नतश्ववद्भानात् [१] | प्रतारणैवेय [२] मिति चेत् ? न, रत्नशास्त्रेऽपि प्रतारणापत्तेः । तदार्षमिति चेत्तुल्यम् । न चेदेव-

न्यायलीलावतीकण्ठाभरणम्

व्यातिरिति परिहरति--न चेति । एषेति । उपदेशसहकृतेन्द्रियग्राह्यता जातेरिति प्रतारणेत्यर्थः । आर्षमिति । ऋषिप्रणीतमित्यर्थः । यद्यपि ऋषिप्रणीतत्वादेव यदि विश्वासस्तदा युक्तिशास्त्रत्वविरोधस्तथापि प्रणयनप्रयोजिकाया युक्तेऋषिणापि स्वप्रामाण्यदर्शनाय दर्शनीयत्वादिति भावः । द्रव्यत्वसाधकानुमाने विपक्षबाधकमाह - न चेदेव मिति । समवायिकारणता यद्येक व्यक्तिमात्रनिष्ठा स्यात्तदा व्यक्त्य

न्यायलीलावतीप्रकाशः

प्रतीतिः श्येन संयोगविभागवति स्थाणावपि तदापत्तेः । द्रव्याकारानुगतबुघ्घभवमभ्युपेत्याह---न चेति। गृहीतसमयस्येति । वस्तुत उपदेशं विनापि रत्नविशेषेऽनुगतधीरस्त्येव शब्दविशेषवाच्यत्वं परमुपदेशात् प्रतीयते । न च येनानुगतरूपेणोपदेशस्तेनान्यथासिद्धिः, जातौ बाधके सत्येवोपाधिस्वीकारात् । न चैवं वैपरीत्यमेव स्यात् उपाधे: क्लृप्तत्वादिति वाच्यम्, साक्षात्सम्बद्धधर्मस्यावच्छेदकत्वे बाधके सत्येव परम्परासम्बद्धस्य तथात्वालाघवादिति भावः । समवायिकारणत्वनियामकद्रव्यत्वामावे व्यक्तितः कारणत्वनिरूपणे व्यभि

न्यायलीलावतीप्रकाशविवृतिः

 श्येनेति । श्येनविभागस्य स्वनाश्यसंयोगसमानकालत्वादिति भावः । न च विभाग पूर्व संयोगस्तदालम्बनं विभज्य संयुक्ते इयेने सति तथाप्यतिप्रसङ्गात् । नच विभागाव्यवहितोत्तरवर्त्तिश्येनसंयोगस्तथा। एकदेशावच्छिन्नस्थाणुविभागानन्तरं तज्जनककर्मणैवापरदेशान्तरावच्छेदेन श्येनसंयोगवति स्थाणौ तथाप्यतिप्रसङ्गात् । संयोगप्राक्कालिककर्मण एव विभागप्रत्यय इति वैपरीत्यस्यापि सुवचत्वाच्च । वस्तुतः कर्माभावे संयोगविभागयोरेवानुत्पत्तिरिति भावः । साक्षादिति ।


  1. द्भावात् ।
  2. ‘णैवैषेति' ।