पृष्ठम्:न्यायलीलावती.djvu/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
न्यायलीलावती


मेकव्यक्तिजनकत्वे व्यक्त्यन्तरे तद्बुद्धिविरहापत्तिः । भावे वा सर्वव्यक्ति ष्वतिप्रसङ्गः । कतिपयव्यक्तिनिष्ठत्वं तु यदि जातिमन्तरेण तदा नियतानामेव व्यक्तीनां समानाकारविकल्पजननसाम र्थ्यादेकजातीयताव्यवहारोऽस्त्विति जात्यपह्नवप्रसङ्गः । गुणत्वं च रूपादयो रूपत्वादिव्यतिरिक्ता (वा?)न्तरजातिमन्तः सामा-


न्यायलीलावतीकण्ठाभरणम्

न्तरे तदभावापत्तिरित्यर्थः । ननु कतिपयव्यक्तीनामेवायं स्वभावो यत्ता एव समवायिकारणं न गुणादिव्य क्त्योऽपीत्यत आह - कतिपयेति । एवं सति सास्नादिव्यक्त्तीनामेव स्वाभाव्यात् गवाकारानुगतमतिजनकत्वे किं गोत्वादिनेत्यर्थः । गुणत्वं चेति । नासिद्धमिति शेषः । साधकमाह - रूपादय इति । रूपत्वादीति । रसत्वमधुरत्वाद्यपग्रहः । अ-

न्यायललिावतीप्रकाशः

चारात् कारणत्वव्यवहारविलोप इत्याह - न चेदेवमिति । सर्वव्यक्तिष्विति । गुणकर्मादिष्वपीत्यर्थः । कतिपयेति । समवायिकारणत्वस्येति शेषः । समानाकारविकल्पो गौरित्याद्यनुगतव्यवहार इत्यर्थः । सामर्थ्यात स्वभावादित्यर्थः । रूपत्वादीति । आदिपदाद् रूपत्वव्याप्यरसत्वतव्द्याप्यजातिपरिग्रहः । न च नानैव जातिः सिद्ध्येत्, लाघवादेकस्या एव सिद्धेः । नापि द्रव्यकर्मवृत्तिः सा सिव्घेदित्यर्थान्तरम्, सा जातिर्न-

न्यायलीलावतीप्रकाशविवृतिः

अन्यथा जातिमात्रापळापे तदूघटितोपाघेरपि विलयापत्तेरिति भावः । नापीति । द्रब्यवृत्तिः कर्म्मवृत्तिरिति प्रत्येकमाशङ्का । अन्यथा सत्तया सहान्यूनानतिरिक्तव्यक्तिकताप्रसङ्गेन शङ्कानुत्थानादित्यवधेयम् । सा जातिरिति । न चाप्रयोजकत्वं रूपमात्रवृत्तित्वस्य तत्राप्रयोजकत्वात् अन्यथा रूपवृत्तित्वेन सत्ताया अपि तदवृत्तित्वापत्तेरिति बाच्यम्, संयोगविभागेत्यादिवक्ष्यमाणस्य चतुर्विंशतिगुणमात्रवृतिजातिसाघकस्य विपक्षबाधकत्वात् । द्रव्यगुणोभय (वृत्ति ? ) जातौ च मानाभावात् । द्रव्यमात्रे (च) तादृशजातिसाधनं बाधितम्,