पृष्ठम्:न्यायलीलावती.djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यवत्त्वात् कर्म्मवत् । उपदेशश्च यत्र सामान्यवत्त्वे सति संयोगविभागात्मक कार्यद्वयाभावस्तद्गुणत्वव्यञ्जकमित्यसाधारणव्यञ्जकविषयोऽतो नान्योन्याश्रयः । यत्र विशुद्धसन्ततिजन्यत्वं तत्र


न्यायलीलावतीकण्ठाभरणम्

वान्तरत्वं सत्ताव्याप्यत्वम् । तथा च रूपं रूपत्वतव्घाप्येतरसत्ताव्याव्यजातिमत् जातिमत्त्वात् द्रव्यवत् कर्म्मवद्वेति साधनार्थः । ननु तथापि कथमनुगतधीरुपदेशं विनेत्यत आह - उपदेशक्ष्चेति । सामान्यवत्वं जातिमत्त्वम् । संयोगविभागात्मककार्य्यद्वयाभाव इति । उभयाजनकत्वमित्यर्थः : । सामान्यवान् संयोगविभागोभयसमवायिकारणत्वासम- वायिकारणत्वशून्यो गुण इत्युपदेशः पर्थ्यवस्यति । एवं च न कर्म्मसाधारण्यं न वा गुणो गुण इत्युपदेशे योऽन्योन्याश्रयः स इहेत्यर्थः । यद्वा संयोगविभागोभयकारणताविरोधिनी सामान्यसमानाधिकरणकारणता गुणत्वव्यञ्जिका । न चादृष्टेश्वरज्ञानादौ तदुभयनिमित्तकारणे गुणत्वं न स्यादिति वाच्यम्, निमित्तकारणतान्यतदुभयकारणत्वस्य विवक्षितत्वात् । तदुभयसमवायिकारणत्वं तदुभयासमवायिकारणत्वं निमित्तकारणतातिरिक्ततदुभयकारणत्वभिन्नसामान्यसमानाधिकरणकारणत्वं च जातिव्यञ्जकम् । तथा च द्रव्यत्वं कममत्वं गुणत्वं च जातित्रयं सिद्धयति । न च तदुभयसमवायिकारणत्वभिन्नकारणतावच्छेदकतया गुणकर्म्मसाधारणी तदुभयासमवायिकारणताभिन्न कारणतावच्छेदकतया च द्रव्यगुणकर्म्मसाधारणी च एका जातिः सिद्धषेदिति वाच्यम्, अननुभवात् । अनुभवानुसारेणैव व्यवस्थापकानुसरणात् । अन्यथा यावति रूपकारणता तावत्येका यावति स्पर्शकारणता तावत्यपरा जातिः स्यादेवं गुरुत्व परत्वापरत्वादिसमवायिकारणतावच्छेदिका व जातिः स्यादिति । उपदेशव्यङ्गयत्वे जातेद्दृष्टान्तमाह — यत्रेति । नन्वेवं द्रव्यगुणकर्म्मसाधारणमर्थत्वमपि

भ्यायलीलावतीप्रकाशः

द्रव्यकर्मवृत्तिः रूपवृत्तिसत्ताम्यजातित्वात् रूपत्ववदिति बाधकात् ।