पृष्ठम्:न्यायलीलावती.djvu/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
न्यायलीलावती


ब्राह्मण्यमितिवत् अर्थत्वमपि स्यादिति चेन्न, तस्य सत्तासम्ब


न्यायलीलावतीकण्ठाभरणम्

जाति: स्यादित्यत आह - अर्थत्वमिति । अन्यथा त्रयाणामर्थशब्दवाच्यत्वे किं प्रवृत्तिनिमित्तं स्यादिति भावः । सत्तावत्वमेवोपाधिरर्थत्वमिति परिहरति — नेति । प्रवृत्ति निमित्तमप्ययमेवोपाधिरिति भावः ।

न्यायलीलावतीप्रकाशः

ननु चाप्रयोजकं सामान्यवत्त्वं द्रव्यमात्रे द्रव्यगुणयोर्वा द्रव्यत्वतद्याप्यान्यसत्ताव्याप्यजात्यनुमितेरपि तत एवापत्तेः । न च द्रव्यत्वकर्म्मत्वान्य [१] सत्तासाक्षायाप्यजातिमत्वमुपाधिः साध्यव्यापकताग्राहकमानाभावात् । भावे वा गुणत्वसाधकेऽपि रूपाद्यवृत्तिजातिमत्त्वमुपाधिः स्यात् । न चास्योपा घेर्द्रव्यकर्ममात्रवृत्तित्वात् द्रव्यत्वकर्मत्वदृष्टान्तेन साध्याव्यापकत्वमनुमेयम्, अप्रयोजकत्वात् । न च सामान्यवखाविशेषऽपि संयोगविभागलक्षणविरुद्धाविरुद्ध कार्यकारित्वाट्गुणकर्मणोर्वैजात्यं साध्यम् । रूपादीनां ह्येकजातीय कार्यकारित्वेनैकजातीयत्वं साध्यते कर्मविलक्षणकार्यकारितया तद्वैजात्यं वा । आद्ये व्यभिचारः । द्रव्यकर्मणोस्तथा त्वेऽपि वैजात्यात् सत्तया सिद्धसाधनं च । अन्त्ये रूपादीनामेक जातीयत्वासिद्धेरर्थान्तरम् । सामान्ये

न्यायलीलावतीप्रकाशविवृतिः

अन्यूनातिरिक्तव्यक्तिक जात्य नङ्गीकारादत आह - द्रव्यगुणयोर्वेति । न च द्रव्यत्वगुणत्वान्येति । क्वचिद्दुणत्वस्थाने कर्मत्वेति पाठः । स च द्रव्यकर्मणोरिति पूर्वफक्किकापाठपक्षे सत्तामादाय साधनव्यापकत्वमिति सत्ताव्याप्येति । पृथिवीत्वादिकमादाय तथात्वमिति साक्षादिति । गुणवत्त्वमुपाधिमादाय तथात्वप्निति जातीति । द्रव्यत्वादिकमादाय तथात्वमिति अन्यत्वपर्यन्तम् । न चास्येति । अव्यवहितोपाधेरित्यर्थः । द्रव्यकर्ममात्रवृत्तित्वं द्रव्यकर्मेतरावृत्तित्वमात्रमन्यथा दृष्टान्ते साधनवैकल्यापत्तेरिति ध्येयम् ।

 विरुद्धेति । यथायोग्यमत्रान्वयः । एकजातीयेति । अविरुद्धत्वेनैवैकजातीयत्व [२] मिति भावः । व्यभिचार इति । विरुद्धत्वेनैवैकजातीयत्वादिति


  1. द्रब्यत्वगुणात्वान्य
  2. 'यत्वादि' ।