पृष्ठम्:न्यायलीलावती.djvu/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्धित्वपर्यायत्वात् । अन्यथा बुद्धित्वज्ञानत्वादिनानासामान्यापत्तेः । न चात्र व्यतिरेकशङ्का निरुपाधित्वादिति न न्यूनम् । षडेव पदार्था इत्युदेशः ।

न्यायलीलावती कण्ठाभरणम्

ननु अर्थत्वं जातिरेव किं न स्यादित्यत आह - अन्यथेति । सत्तया सह अन्यूनानतिरिक्तव्यक्तिकत्वमेवास्य जातित्वे बाघकमित्यर्थः । तर्हि सत्तैव जातिः कथं स्यादिति नाशङ्कनीयम्, अनुगतमतिबलेन तज्जातित्वस्य सर्व्वसिद्धत्वात् त्रयाणामर्थपदाभिधेयत्वस्य वैशेषिकपरिभाषामात्रसिद्धत्वात् । ननु रूपादयो रूपत्वादिव्यतिरिक्तावान्तरजातिमन्त इत्यत्र विपक्षे बाधकं नास्तीत्यत आह-- न चात्रेति । व्यभिचारशङ्काप्युपाधिशङ्कया स्यात् । सा च योग्यायोग्योपाधिनिरासेन निरस्तेत्यर्थः । नवानां द्रव्यत्वेनैकत्वे चतुर्विंशतेश्च गुणत्वेन एकत्वे पञ्चानां कर्म्मत्वेन एकत्वे साधिते निरस्तमाधिक्यमिति न न्यूनं षडेव पदार्था इत्याह - इतीति ।

न्यायलीलावतीप्रकाशः

व्यभिचारश्च अदृष्टेश्वरज्ञानादौ विरुद्धकार्यकारितया गुणत्वाभावापत्तेः ।

 अत्राहुः । संयोगविभागोभया समवायिकारणत्वसमवायिका-

न्यायलीलावती प्रकाश विवृतिः

भावः । नन्वेवमध्यविरुद्धकार्य मात्र कारणत्वेनैक जातीयत्वसाधनमविरुद्धमेवेत्यरुचेराह – सत्तयेति । अर्थान्तरमिति | रूपत्वादिकमादायैव पर्यवसानादिति भावः । अत्राहुरित । मूलानुमाने विपक्षबाधकमिति शेषः । संयोगविभागेत्यसमवायिकारणत्व मात्रान्वयि । एवं च समवायिकारणत्वोभयासमवायिकारणत्वशून्य इत्यर्थः । अनेन च कर्मणो द्रव्यस्य चका (वा?) रणं तत्रापि संयोगजसंयोगविभागजविभागकारणयोः संयोग विभागयांवव्याप्तिवारणाय उभयोपादानम् | ईश्वरज्ञानसंग्रहायासमवायीति । सामान्यादावतिव्याप्तिवारणाय जातिमतीति । न चा(च?) प (पा?) रिमाण्डि (ण्ड ?) ल्यासंग्रहस्तत्र कारणत्वाभावादिति वाच्यम्, महत्त्वजात्यभावसाक्षात्कारे प्रत्यासत्तिघटकतया तस्यापि