पृष्ठम्:न्यायलीलावती.djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
न्यायलीलावती


न्यायलीलावतीप्रकाशः

रणत्ववन्ये जातिमति यत्कारणत्व तदसति बाधके जातिरूपधर्मावच्छेद्यमिति गुणत्वं सामान्यमवश्यमङ्गीकार्य रूपत्वादीनां मिथोव्यभिचारात । सत्तायाश्चातिप्रसञ्जकत्वात् । एवं च रूपान्तरेण कार- णतया द्रव्यकर्मसाधारणी यदि जातिः सिद्ध्यति सियतु । संयोगविभागी प्रति समवायिकारणतया नवसु द्रव्यत्वम् । तदुभयं प्रत्यसमवायिकारणत्वेन पञ्चसु कर्मत्वं तेनैव द्रव्यकर्मविभागः सङ्गतः । यद्वा निमित्तकारणतातिरिक्तेन रूपेण या संयोगविभागोभयकारणता ताद्वरोधिनी या सामान्यसमानाधिकरणा कारणता सा गुणत्वव्यवस्थापिका । द्रव्ये च न तादृशकारणताविरोधिनी कारणता, क्वचिद्

न्यायलीलावतीप्रकाशविवृतिः

कारणत्वात् । रूपान्तरेणेति । निमित्तकारणतातिरिक्तेन संयोगविभागोभयकारणत्वेन संयोगविभागोभयासमवायिकारणत्वशून्यवृत्तिकारणताभिन्नजातिसमानाधिकरणत्वेन वेत्यर्थः । जातिसमानाधिक गुणकर्म्मणोरप्येकजातिसिध्दौ सङ्करभयादयं प्रसङ्ग एव नेत्याशयेनाह -- यदीति । तथा जात्या विभागे नवत्वव्याघात इत्यत आह-संयोगविभागाविति । 'अभावद्व्यगर्भतयाऽपरितुष्यन् कल्पान्तरमाह - यद्वेति । अत्रेश्वरज्ञानादिसंग्रहाय निमित्तकारणतातिरिक्तेनेति विशेषणम् । संयोगविभागसङ्ग्रहायोभयेति । उभयकारणता च स्वरूपयोग्यता, तेन न विनश्यदवस्थकर्मण्यतिव्याप्तिः । जात्यादिवारणाय सामान्यसमानाधिकर णेति । ननु क्वचित्संयोगे विभागे च निमित्तत्वाद् द्रव्यस्यातिव्याप्तिरत आह - क्वचिदिति । क्वचिदेव संयोगे निमित्तत्वं न तु सर्वत्र [१] समवेते संयोगे विभागे च समवायित्वान्न तद्विरोधिनी कारणता द्रव्यस्येति भावः । यद्वा क्वचिन्निमित्तकारणत्वेन हेतुना तादृशकारणताविरोधिनी कारणतेति न । कुतः ? समावेशात् । समवायिकारणत्वेन सममिति योजना । ननु कल्पद्वयमध्ययुक्त कार्याविशोषितायाः कारणताया जात्यव्यवस्थापकत्वात् । चतुर्विंशतिगुणसाधारणस्य च कार्यस्याभावादिति ।

 अत्र मिश्राः । कार्यविशेषोऽपि कारणतायामनुगमार्थमाद्रियते


  1. स्वसमवेतसंयोगविभागे च सम० ।