पृष्ठम्:न्यायलीलावती.djvu/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासितां


न्यायलीलावतीप्रकाशः

द्रव्यस्य तन्निमित्तकारणत्वेन समावेशात् । सामान्यस्य र्ताद्दशी कारणतापि न सामान्यसमानाधिकरणा । न चैवं समवायिकारणता-

न्यायलीलावती प्रकाशविवृतिः

प्रकृते चोक्तरूपमेव कारणतायामनुगमकमिति किं कार्यविशेपादरेण । अत एव समवायिकारणतावच्छेदकतयैव द्रव्यत्वसिद्धिरुपेयते । न चैवं प्रकारान्तरेणानन्तजात्यापत्तिः । द्रव्यकर्मोभयवृत्तिजातौ बाधकस्य वक्ष्यमाणत्वात्सामान्यादौ तत्त्वस्यैव [१] बाधकत्वात् । विना च बाधकमिष्टापत्तेरिति वदन्ति । तञ्चिन्त्यम् । एवं सति रसरूपादिसमानाधिकरणतानुरोधेनापि जात्यापत्तेः, स्पर्शसमानाधिकरणकारणतानुरोधेनापि चतुःसाधारणजातिसिद्धौ पूर्वग्रन्थविरोधाच्च । आपादि तजातीनां व्याप्यव्यापकभावेन सङ्करशङ्काया अभावात् । न चैवं ग न्धासमानाधिकरणद्रव्यत्वसमानाधिकरणकारणतानुरोधेनापि जातिसिद्धौ सङ्करान्नवा जातय इति वाच्यम्, असमवायिकारणत्वेन कतिपयगुणकर्मसाधारणजातिसिद्धौ सङ्क (र?) स्य गुणत्वेऽपि तुल्यत्वादिति ।

 केचित्तु द्रव्यत्वाभिव्यक्तिरेवानुगतं कार्यमिति तदप्ययुक्तम् । तादृशकार्यकारणवापि निर्विशेपितैच वा [२] जातिनिय (या ? ) म(मि?) का, विशेषणान्तर विशिष्टा वा । आद्ये कर्मसाधारण्यापत्तिः, अन्त्ये वातिप्रसङ्ग एव, रूपत्वासमानाधिकरणोक्तरूपकारणतानुरोधेन तद्भिनगुणेष्वेक [३] जात्यापत्तेः । तस्माद् गुणपदशक्यतावच्छेदकत्वेन तत्सिद्धिरसति बाधके पदवाच्यतायामनुगतजातिनिमित्तत्वादिति तात्पर्यम् [४] । वस्तुतः प्रत्यक्षमेव गुणत्वे मानमित्यग्रे 'उपदे. शक्ष्चे' त्यादिमूल एव व्यक्तमिति ।

 सामान्यस्येति । सामान्यादेरित्यर्थः । समवायिकारणतातिरिक्तेति । सम-


  1. तस्यैव ।
  2. द्वितीयार्दशपुस्तके वाकारो नास्ति ।
  3. 'णेष्वेव जा' ।
  4. शक्यतावच्छेदकत्वेन जातिसिध्दौ विभुपदशक्यतावच्छेदकतया विभुचतुष्टयमात्रवृत्तिजातिसिद्धिप्रसङ्गः स्यादिति दीधितिकृद्भिस्तथा जातिसिद्धिर्नाभ्युपेयते, तेषा मते शक्यतावच्छेदकाननुगमो न दोषायेति परन्तु रघुदेव भट्टाचार्येण शिरोमणिकृत-"पदार्थतत्त्वनिरूपणे" गुणत्वजातिखण्डनपरग्रन्थव्याख्यानावसरे 'इदमत्र बोध्यम् । असति बाधके गुणपदशक्यतावच्छेदकत्वेन गुणत्वजातेः सिद्धौ बाधकाभावः । इदं 'पूर्णाय परमात्मने' इत्यत्रेश्वरे आत्मपदव्यपदेशं कुर्व्वतो दीधितिकृतोऽपि सम्मतम् । अन्यथा आत्मपदशक्यतावच्छेदकत्वं विना ईश्वरसाधारणात्मत्वजाता युक्तचन्तराभावेन तथा व्यपदेशोऽसङ्गन्तः स्यादिति” । इति स्वहस्तितम् ।