पृष्ठम्:न्यायलीलावती.djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
न्यायलीलावती


न्यायलीलावतीप्रकाशः

तिरिक्तकारणत्वेन गुणकर्मणोरेका जातिः सिद्धयेत् तस्य जात्यव्यवस्थापकत्वात् । अन्यथा निमित्तकारणतातिरिक्तकारणत्वेन संयोगमन्तर्भाव्य जातिसिद्धौ जातिसङ्करापत्तिः । गुणत्वे प्रत्यक्षं मानमाह -- उपदेशश्चेति । संयोगेति । विभाग पूर्वक संयोगासाधारणकारणत्वाभावो गुणत्वव्यञ्जक इत्यर्थः । तेन संयोगस्येश्वरज्ञानस्यादृष्टस्य चोभयजनकत्वेपि न तत्र गुणत्वाभावः । नान्योन्येति । गुणत्वेनानुगतधर्मेणोपदेशसिद्धिः, ततश्च गुणत्वसिद्धिरित्यन्योन्याश्रयो नैवमित्यर्थः । अर्थत्वमपीति । जातिरिति शेषः । सत्तेति । सत्तया सहान्यूनानतिरिक्तवृत्ति त्वानार्थत्वं जातिरित्यर्थः । अत्रेति । द्रव्यत्वगुणत्वसाधकमान इत्यर्थः । निरुपाधित्वादिति । निरूपाधाववश्यमव्यभिचारस्थितेरित्यर्थः ।

न्यायलीलावतीप्रकाशविवृतिः

वायिकारणताविरोधीत्यर्थोऽन्यथा द्रव्यसाधारण्यापत्तेः । अत्र सामा न्यवत्वे सतीति विशेषणम् | अन्यथेति । यद्यपीयं जातिः पदार्थत्रय [१] एव स्यादिति गुणकर्मवृत्तिजातिव्यापकत्वादेव न संकीर्णता [२] तथापि ज्ञानाद्यवृत्तित्वेन तद्व्यापकतया पूर्वजातिसङ्कीर्णेति द्रष्टव्यम् । संयोगमिति । संयोगादिकमित्यर्थः । 'जातिसिद्धौ' द्रव्यत्वजातिसिद्धौ । यद्यपि कर्मवृत्तित्वेनैव सङ्करसम्भवे संयोगमन्तर्भाव्येति व्यर्थम्, तथापि संयोगमादायापि सङ्करः सम्भवत्येवेत्येतदुक्तम् । केचित्तु संयोगमन्तर्भाव्य संयोगं समानाधिकरणीकृत्येत्यर्थस्तथा चैतत्पदमहिम्नैव द्रव्यवृत्तित्वसिद्धिरित्याहुः । तन्न । एवं सति कर्मवृत्तित्वादेः साङ्कर्यप्रयोजकस्यानुपन्यासात् [३]। यद्यत्येवं कार्याविशेषित कारणताया [४] जात्यव्यवस्थापकत्वे गुणत्वव्यवस्थापनमप्यशक्यं तथापि सति विपक्षबाधके कारणताया जातिव्यवस्थापकत्वं विपक्षबाधकं च क्वचिदन्यत् प्रकृते चानुगतगुणव्यवहार एव विवपक्षे बाधकम् । न चानुशङ्कितजातावेतादृशं चानुगतकार्ये वा विपक्षबाघ्रकमस्तीति हृदयम् ।

यथाश्रुतस्येश्वरज्ञानादावव्याप्तेराह - विभागेति । अत्रासाधारणपदेनादृष्टवदात्मसंयोगस्येश्वरज्ञानादेक्ष्च साधारणस्य [५] संग्रह:


  1. र्थत्रयेऽपि स्या ।
  2. कीर्णा त ।
  3. स्यानुपदं न्यासात् ।
  4. कार्येण विशेषितकारणतायाः ।
  5. साधारणकारणस्य ।