पृष्ठम्:न्यायलीलावती.djvu/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


 पृथिवी तावत्पृथिवीत्व जातियोगान्न भिद्यते तत्र मानाभावात् । पृथिवीत्यनुगतव्यवहारादिति चेन्न, घृतादौ तदभावात् । तत्रापि निपुणेनोपलभ्यते इति चेत्, न, जलादावपि तुल्यत्वात् । सन्देहेऽपि भागासिद्धत्वात् । गन्धवत्वात् तदनुमानमिति चेन्न, तस्य वाय्वादिसाधारण्यात् । वाय्वादाबौपाधिकी गन्धप्रती- तिरिति चेन, चम्पककर्पूर [१]भागानामनागमनात् । आगमने [२]


न्यायलीलावतीकण्ठाभरणम्

 ननु एतावता पदार्थविभागः समाहितो नवैव द्रव्यानीति तु न युक्तमिति शङ्कते - पृथिवी तावदिति । जलादित्रयोदशभेदः पृथिव्याः पृथिवीत्वजात्या न सम्भवति पृथिवीत्वजातौ मानाभावादित्यर्थः । घृतादाविति । न हि लौकिकानामत्र पृथिव्याकारोऽनुगत प्रत्यय इत्यर्थः । ननु परीक्षकानां तावदस्तीत्यत आह -तत्रापति । कस्यचित् सिद्धान्तिनो निपुणस्य करकारूपजलादावपि पृथिवव्यवहार इत्याह - जलादाविति । यद्वा सुगन्धि जलमिति प्रतीत्या जलेऽपि पृथिवीत्वव्यवहार इत्यर्थः । यद्वाऽतद्गुणसंविज्ञानबहुव्रीहिणा सुवर्णायुक्तं तदनुमानमिति घृतादौ पृथिवीत्वानुमानमित्यर्थः । सुरभिः समीरण इतिप्रतीतिब लमाश्रित्याह - तस्येति । गन्धवत्वं गन्धसमवायित्वमभिमतं वायो च गन्धस्य संयुक्त समवाय इत्याह - ज्ञौपाधिकाति । कर्पू दिरुपाधिवांच्यः, स च न वायुसंयुक्तो दृश्यते येन तथा स्यादित्याह- कर्पूरेति । ननु सूक्ष्मा एव कर्पूरादिभागा वायुसहचारिण इति न दृश्यन्ते

न्यायलीलावतीप्रकाशः

 नवत्वं द्रव्याणां मिथोभेदक सिद्धाविति भेदकमाक्षिपति - पृथिवीति । घृतादाविति । तथा च भागासिद्धिरिति भावः । निपुणेनापि घृतादौ पृथिवीत्वानुभवोऽसिद्ध एव । तादृशोऽपि यदि गमकस्तदा जलादावपि तत्सियेदित्याह --- जलादाविति । सन्देहेऽपीति । घृतादौ पृथिवीत्वे सन्देहेऽपि भागासिद्धिसन्देहादिति भावः । औपाधिकीति । चम्पकाछुपाधेरन्वयव्यतिरेकानुविधानादिति भावः । चम्पकेति । इन्द्रियाणां


  1. कर्पूरचम्पकेति कण्ठाभरणसम्मतः पाठः ।
  2. आगमने वेत्यपि पाठः ।