पृष्ठम्:न्यायलीलावती.djvu/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

इत्यत आह -- आगमने वेति । उपलभ्यमानगन्धाश्रया भागा यदि दूरोपलभ्यमानचम्पकयुतसिद्धाः स्युश्चम्पकावयवा न स्युरित्यर्थः । चम्पकविभागहेतुक्रियावन्तो यदि स्युश्चम्पकावयवा न स्युरिति

न्यायलीलावतीप्रकाशः

प्राप्यकारितया अनागतचम्पकभागानां गन्धाग्रहणादिति भावः । आगमने वेति । विवादाध्यासिताश्चम्पकावयवा यदि चैत्रघ्राणसंयुक्तत्वेऽसति [१] चैत्रवाणग्राह्यगन्धाधिकरणानि भवेयुः, चम्पकाव-

न्यायलीलावतीप्रकाशविवृतिः

संयोगसङ्ग्रहाय विभागपूर्वकेति । न च विभागविशिष्टेत्येव सम्यगिति वाच्यम्, हिमवद्विन्ध्ययोर्न विभाग इति संयोगस्यापि विभागकारणतया संयोगाऽव्याप्तेः । संयोगश्च संयोग जनयित्वा विभागं जनयतीति तत्सङ्ग्रहः । असाधारणत्वं च [२] संयोगमात्रवृत्तिधर्म्मावच्छिन्नकार्यताप्रतियोगिक कारणताश्रयत्वम्, न तु तत्मात्रकारणत्वम् । व्यावर्त्त्यद्रव्यकर्मणोरतथात्वेन प्रतियोग्यप्रसिद्धे: । जातिसामानाधिकरण्यं च मूलोक्तमेव विशेषणमतो न जात्यादावतिव्याप्तिशङ्का । यद्यप्येवं स्पर्शवत्वादिव्यङ्ग्यमपि सामान्यं स्यादेव तथापि रूपादौ गुणत्वानुभववत् न पृथिव्यादौ तादृशजात्यनुभव इति हृदयम् ।

 अवयवानामागमनं दलच्छिद्रतापादकमिति व्यधिकरणमतोऽन्यथा तर्कमाह – विवादाघ्यासिता इति । चैत्रघ्राणग्राह्यगन्धाधिकरणानीत्यर्थः । आपाद्ये चम्पकपदं तद्देशवृत्तिचम्पकपरम्, अतो नाघ्नायमानचम्पकान्तरावयवे तस्मिन्नेव वा चम्पके आनीयाघ्राते सति तववयवे व्यभिचारः । सत्यन्ते च चैत्रपदमेतद्देशवत्तिपरम् । तेन चैत्रेण गत्वाघ्राते तद्देशवर्त्तिचम्पकावयवे न व्यभि चारः । न चैवमपि तस्माञ्चम्पकादाकृष्या [३] घ्राते तदवयवे व्यभिकार इति वाच्यम्, वैयधिकरण्यमात्रपरिहाराय विवक्षेति । सच्छि द्रत्वापादानस्यैवाभिप्रेतत्वेनापाद्ये चम्पकपद स्याच्छिद्र चम्पकपरत्वात् । अच्छिद्रत्वं च योग्यावयवविगमस्तथा तत आकृष्यानीतेऽ वयवे तस्य सच्छिद्रत्वादच्छिद्रावयवाभावोऽस्त्यवेति न व्यभिचारः ।


  1. चैत्रघ्राणासंयुक्तत्वे सतीति विवृतिसम्मतः पाठः ।
  2. असाधारणकारणत्वं च ।
  3. व्कृष्यानीयाघ्राते ।