पृष्ठम्:न्यायलीलावती.djvu/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


चम्पकदलानां सच्छिद्रत्व [१] प्रसङ्गात् [२] । कर्पूरे च भवनोदरमधिवासयति मापकादित्रुटिसङ्गात् । न चापरपरमाणुप्रवेशाचुल्यायव्ययत्वमिति [३] वाच्यम्, एकमाषस्या [४] क्षयताप्रसङ्गात् । नापिपाकजः स्पर्शः, पाकजत्वासिद्धेः । पार्थिव विशेषगुणत्वत्तत्सि-


न्यायलीलावतीकण्ठाभरणम्

वा प्रसङ्गः । कर्पूरे [ चे? ]ति । माषकमिति । कर्पूरं यदि वाय्वाकृष्टकतिपयभागं स्यात् न्यूनं स्यादित्यर्थः । अपरापरापरपरमाणुप्रवेशान्न त्रुटिरित्याशड्ड्याह - न चेति । एकेति । माषकमितं कर्पूरं यदि भागान्तरपूरितं स्यात् पूर्वाधिकगुरुत्वाधिकरणं स्वादित्यर्थः । नापीति । पृथिव्या इतरभेदक इति शेषः । अत्र स्वरूपासिद्धिमाह - पाकजत्वेति । पृथिवीस्पर्शः पाकजः तद्विशेषगुणत्वादिति सिद्धेर्न स्वरूपासिद्धिरित्याह--पार्थिवेति ।

न्यायलीलावतीप्रकाशः

यवा न स्युरित्यर्थः [५]। कर्पूरे चेति । प्रचुरतरभागविगमञ्च तावहुरुत्वाधिकरणं चेति व्याहतमित्यर्थः । नापीति | भेदक इति शेषः । पाकानन्तरं घटादिरूपादौ वैजात्यानुभववत् संख्यादौ तदननुभवादपाकजत्वप्रती-

न्यायलीलावतीप्रकाशविवृतिः

अत्र च सत्यन्तं गत्वाघ्राते तदवयवे व्यभिचारवारणाय | न चात्रिमदलस्थ चैत्रविशेषण मेवैत द्देश वर्त्तित्वमस्त्विति वाच्यम्, तस्य प्रयोगान्तरत्वेन यथोक्तदोषाभावात् । यदि चाग्रिमचैत्रविशेषणमेव तत् पदं तदा व्याप्तिग्रहौपायकत्वेन सत्यन्तसार्थकता । अप्राप्तस्यैव गन्धस्य ग्रहे तत्सच्छिद्रत्वाभावेन व्याप्स्यसिद्धिशङ्कायाश्चैत्रघ्राणसंयोगित्वप्रयुक्त ग्रहणविषयगन्धाधिकरणत्वविशिष्टे आपाद केऽप्रसङ्गात् । न च सत्यन्तमात्रमेव सम्यगिति वाच्यम्, परमाणुमात्रस्य चम्पकात्प्रच्युतौ नानिष्टमिति योग्यावयवचिगमपर्यन्तस्यापाद्यतया चम्प-


  1. सच्छिद्रत्वं च पूर्वापेक्षया न्यूनावयवस्वम् ।
  2. सच्छिद्रताप्रसङ्गादिति पाठान्तरम् ।
  3. ०ति न्याय्यम्
  4. ० स्याव्यय० ।
  5. चैत्रघ्राणसंयुक्त चम्पकभागवारणायासत्यन्तम् । तत्रैव चम्पक इति पूरणीयम् । तथा च यदि तत्र चम्पके चैत्रघ्राणसंयोगाभावदशाया चैत्रघ्राणग्राह्यगन्धाधिकरणानि स्युः तदा तञ्चम्पकावयवा न स्युः, तच्चम्पकल्यासत्यासत्त्वकाले च न सयोगाभाववत्त्वम् । इति दीधितिः ।