पृष्ठम्:न्यायलीलावती.djvu/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
न्यायलीलावती


द्धिरिति चेन्न, व्यावर्त्यजलरूपसंख्यादी नामपाक जत्वामतीतौ विशेषणवैयर्थ्यात् । अवैलक्षण्यात्तत्प्रतीतौ तु अत्रापि तद्विपर्ययावसायात्


न्यायलीलावतीकण्ठाभरणम्

पार्थिवपदव्यवच्छेद्यं जलरूपादि विशेषपद्व्यवच्छेद्यं च संख्यादि तदा स्याद्यदि तेषां विपक्षवृत्तित्वनिश्चयः स्यादिति । न चैवमित्याहव्यावर्त्येति । अवैलक्षण्यादिति । जलरूपादयः संख्या दयश्चाग्नि संयोगात् पूर्व्वे यथाऽनुभूतास्ततो विलक्षणास्तदनन्तरं नानुभूयन्त इति तेषामवैलक्ष्यण्याद पाकजत्वमिति यदि तदा पृथिवीस्पर्शोऽपि पाकानन्तरं विलक्षणो नानुभूयत इति स कथं पाकजः स्यादित्यर्थः । अत्रापीति । पार्थिवस्पर्शेऽपीत्यर्थः । अवैलक्षण्यं च पाकजपूर्वापरसा.

न्यायलीलावती प्रकाशः

तिरित्याह – अवैलक्षण्यादिति । 'तत्प्रतीतौ' संख्याद्यपाकजत्वप्रतीतौ । 'अत्रापि पार्थिवस्पर्शेऽपि । विपर्ययावसायादपाकजत्वनिश्चयादित्यर्थः । अवैलक्षण्यं च स्वासमानाधिकरणद्रव्यत्वसाक्षाह्याप्यजातिसमानाधि

न्यायलीलावती प्रकाशविवृतिः

कच्युतपरमाणौ व्यभिचारात्, तस्य विगतयोग्यावयवतदेशवत्तिचम्पकावयवत्वात् । न चैवमपि विशेष्यदलस्थचैत्रपदव्यर्थता, योगिनमादायोक्तव्यभिचारप्रसङ्गेनायोगिपरस्य तस्य ग्रहणगतलौकिकत्वे तात्पर्यादिति मिश्राः ।

 अत्रेदं चिन्त्यम् । आपादयितृमते वायोरेव गन्ध इति कथं चैत्रघ्राणबाह्यगन्धाधिकरणत्वेन पक्षता चम्पकावयवानाम् । न च तेन रूपेण वायोरेव पक्षता तत्रापादकस्यासिद्धत्वेनापादकत्वासम्भवात् परमात्रसिद्धस्यैव तथात्वमिति । तस्मादिदमत्र सारम् । वृक्षस्थित चम्पकावयवत्वेन पक्षता, अन्यञ्च पूर्वोक्तमेव सम्यगिति । नवीनास्तु चैत्रत्राणग्राह्यगन्धाधिकरणानि यदि तद्देशवर्त्त्यच्छिद्र [१] चम्पकावयवाः स्युरेतद्देशवर्त्तिचैत्रत्राण ( I? ) संयुक्तत्वे सति चैत्रैघ्राणग्रा ह्यगन्धाधिकरणानि न भवेयुरिति व्यत्यासेन प्रयोगमाहुः । तन्न सच्छिद्रत्वप्रसङ्ग इतिमूलाननुसारित्वादिति दिक् ।

 स्वेति । 'स्वं' बैलक्षण्याश्रयाभिमतो धर्मो गन्धादि: । तदसमाना-


  1. ०वर्त्तिसच्छिद्रचम्प ।