पृष्ठम्:न्यायलीलावती.djvu/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशविवृतिः

धिकरणा द्रव्यत्वसाक्षाव्घाच्या जातिर्जलत्वादिः, तत्समानाधिकरणो गुणः स्नेहादिः, तदवृत्तिरथ च सुरभित्वादिनानाजातिव्यापिका जातिर्गन्धत्वादिस्तच्छ्रन्यत्वमवैलक्षण्यमित्यर्थः । तथा च स्पर्शे तादृशजात्यभावादवैलक्षण्यम् । न च शीततरत्वादिव्यापकशीतत्वादिकमादाय शीतस्पर्शादावव्याप्तिरेतस्यापाक जत्वव्याप्यस्य निरुक्त्या तथा सत्यपि दोषाभावात् । व्यापकव्यभिचारस्यादोषत्वात् । न च कठिनतरत्वादिजातिमादाय पृथिवीस्पर्शेऽप्यसम्भव इति वाच्यम्, काठिन्यस्य पूर्वपक्षिणा संयोगभेदत्वस्वीकारात् । न चैवमपि कठिन संयोगे ज्ञानशब्दादौ चाव्याप्तिरिति वाच्यम्, व्यापकव्यभिचारस्यादोषत्वादित्युक्तत्वात् । द्रव्यत्वसाक्षाव्घाप्यपदं तु परमाणुवृत्तिनीलासमानाधिकरणघटत्वादिसमानाधिकरणनीलवृत्तितया नीलत्वस्य नीलेऽतिव्याप्तिवारणाय । व्योमपटान्यतरत्वमादाय तद्दोषतादवस्थ्यमिति प्रथमजातिपदम् । वायुस्पर्शविलक्षणैव पृथिवी स्पर्शवृत्तिजातिरित्यभिसन्धिना पृथिवीस्पर्श अव्याप्तिवारणाय नानाजातिव्यापकपदम् । न चैवमपि नानापदं व्यर्थमेवेति वाच्यम्, स्वस्यापि स्वव्यापकत्वेन पूर्वदोषावारकत्वात् । न च पाकजन्यघृत सुवर्णद्रव्य (व?) त्वादावण्येतत्सत्वे व्यभिचार इति वाच्यम्, तत्रापि तारतम्यव्यापिकायाः अग्निसंयोगप्रयुक्तास्यन्ता नुच्छेदोच्छेदप्रयोजकजातेः सत्त्वात् । गुणत्वव्याप्यपदं प्रथमगुणपदं च सम्पातायातम् । चरमजातिपदं तु पृथिवीगुणत्वमादाय पृथिवीस्पर्शेऽव्याप्तिवारणायेति ।

 अत्र वदन्ति । स्पर्शापाकजत्ववादिमते पृथिवीस्पर्शमात्रवृत्तिजातौ मानाभावेन नानाजातीत्यादिपदमनर्थकमिति । तस्मात्पदवैयर्थ्यभयेन समव्याक्त्यभिप्रायकमेवेदम् । न चैवं ज्ञानसुखादावव्याप्तिः पाकप्रयोज्यनानाजातेर्नानाजातिपदेन विवक्षणात् । तादृशरूपत्वादिसत्त्वात् जलरूपादावव्याप्तिरिति अवृत्तीत्यन्तं चरमजातिविशेषणम् । पृथिवीरूपादौ च नीलत्वादिकमादायैव वैलक्षण्यं तत्रापि साक्षात्पदजातिपदे पूर्ववदेव गुणपदं तु सम्पातायातम् । विशिष्टाभावतया च न व्यर्थता । नानापदजातिपदे स्फुटार्थे । अव्यर्थता च तयोर्विशिष्टामावसम्पादकतयैव । गुणत्वव्याप्य पदमपि स्फुटार्थम् । चरमजाति-